०२

01 नमोऽग्नये पृथिविक्षित इत्येतैश्च …{Loading}…

नमोऽग्नये पृथिविक्षित इत्येतैश्च यथालिङ्गम् १

02 ये ते पन्थानः …{Loading}…

ये ते पन्थानः सवितरिति पूर्वया द्वारा प्राग्वंशं प्रविश्याहवनीये वैतसमिध्ममभ्याधायैकादश पूर्णाहुतीर्जुहोति । हिरण्यगर्भः समवर्तताग्र इत्यष्टौ । देवा देवेषु पराक्रमध्वमिति तिस्रः २

03 चतुष्टय्य आपो दिग्भ्यः …{Loading}…

चतुष्टय्य आपो दिग्भ्यः समाभृताः ३

04 तासु ब्रह्मौदनम् पचति …{Loading}…

तासु ब्रह्मौदनं पचति ४

05 पात्र्यां राजतं रुक्मन् …{Loading}…

पात्र्यां राजतं रुक्मं निधाय तस्मिन्ब्रह्मौदनमुद्धृत्य प्रभूतेन सर्पिषोपसिच्य सौवर्णं रुक्ममुपरिष्टात्कृत्वा कर्षन्ननुच्छिन्दंश्चतुर्भ्य आर्षेयेभ्यो महर्त्विग्भ्य उपोहति ५

06 प्राशितवद्भ्यश्चतुरः साहस्रान्सौवर्णान्निष्कान्ददाति चतुरश्चाश्वतरीरथानेतौ …{Loading}…

प्राशितवद्भ्यश्चतुरः साहस्रान्सौवर्णान्निष्कान्ददाति चतुरश्चाश्वतरीरथानेतौ च रुक्मौ ६

07 द्वादशारत्निस्त्रयोदशारत्निर्वा दर्भमयी मौञ्जी …{Loading}…

द्वादशारत्निस्त्रयोदशारत्निर्वा दर्भमयी मौञ्जी वा रशना ७

08 ताम् ब्रह्मौदनोच्छेषेणानक्ति …{Loading}…

तां ब्रह्मौदनोच्छेषेणानक्ति ८

09 अश्वस्य रूपाणि समामनन्ति …{Loading}…

अश्वस्य रूपाणि समामनन्ति । कृष्णः श्वेतः पिशङ्गः सारङ्गोऽरुणपिशङ्गो वा ९

10 यस्य वा श्वेतस्याल्पङ् …{Loading}…

यस्य वा श्वेतस्याल्पं कृष्णं स्यात्तमालभेत । मातृमन्तं पितृमन्तं पृष्ठे वहे च दान्तं सोमपं सोमपयोः पुत्रम् १०

11 विज्ञायत एष वै …{Loading}…

विज्ञायत एष वै सोमपो यं शिशुं जातं पुरा तृणाद्यात्सोमं पाययन्ति । एतौ वै सोमपौ यौ शिशू जातौ पुरा तृणाद्यात्सोमं पाययन्तीति ११

12 अध्वर्युं राज्याय परिददाति …{Loading}…

अध्वर्युं राज्याय परिददाति १२

इति द्वितीया कण्डिका


  1. TS VII.5.24.b. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IV.1.8.n-u. ↩︎ ↩︎ ↩︎ ↩︎

  3. TB III.7.5.1. ↩︎