०१

01 राजा सार्वभौमोऽश्वमेधेन यजेत ...{Loading}...

राजा सार्वभौमोऽश्वमेधेन यजेत । अप्यसार्वभौमः १

02 चित्रा नक्षत्रम् ...{Loading}...

चित्रा नक्षत्रं २

03 पुण्यनाम देवयजनमध्यवस्यति यत्रापः ...{Loading}...

पुण्यनाम देवयजनमध्यवस्यति यत्रापः पुरस्तात्सुखाः सूपावगाहा अनपस्वरीः ३

04 चैत्र्याम् पौर्णमास्यां साङ्ग्रहण्येष्ट्या ...{Loading}...

चैत्र्यां पौर्णमास्यां साङ्ग्रहण्येष्ट्या यजते । तस्या योत्तरामावास्या तस्यां सञ्ज्ञान्या ४

05 वैशाख्याम् पौर्णमास्याम् प्राजापत्यमृषभन् ...{Loading}...

वैशाख्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरं सर्वरूपं सर्वेभ्यः कामेभ्य आलभते ५

06 तस्या योत्तरामावास्या तस्यामपदातीन्महर्त्विज ...{Loading}...

तस्या योत्तरामावास्या तस्यामपदातीन्महर्त्विज आवहन्ति ६

07 अन्वहमितरानावहन्त्या सुब्रह्मण्यायाः ...{Loading}...

अन्वहमितरानावहन्त्या सुब्रह्मण्यायाः ७

08 अमावास्यामिष्ट्वा देवयजनमभिप्रपद्यते ...{Loading}...

अमावास्यामिष्ट्वा देवयजनमभिप्रपद्यते ८

09 केशश्मश्रु वपते ...{Loading}...

केशश्मश्रु वपते ९

10 नखानि निकृन्तते ...{Loading}...

नखानि निकृन्तते १०

11 दतो धावते ...{Loading}...

दतो धावते ११

12 स्नाति ...{Loading}...

स्नाति १२

13 अहतं वासः परिधत्ते ...{Loading}...

अहतं वासः परिधत्ते १३

14 वाचं यत्वोपवसति ...{Loading}...

वाचं यत्वोपवसति १४

15 ये रातयस्ते जागरयन्ति ...{Loading}...

ये रातयस्ते जागरयन्ति १५

16 वाग्यतस्यैतां रात्रिमग्निहोत्रञ् जुह्वति ...{Loading}...

वाग्यतस्यैतां रात्रिमग्निहोत्रं जुह्वति १६

17 द्रष्ट्रे नम उपद्रष्ट्रे ...{Loading}...

द्रष्ट्रे नम उपद्रष्ट्रे नमोऽनुद्रष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुख्यात्रे नमः शृण्वते नम उपशृण्वते नमः सते नमोऽसते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नमश्चक्षुषे नमः श्रोत्राय नमो मनसे जमो वाचे नमो ब्रह्मणे नमस्तपसे नमः शान्ताय नम इत्येकशिंशत्या नमस्कारैरुद्यन्तमादित्यमुपतिष्ठते १७

इति प्रथमा कण्डिका


  1. The word Puṇyanāma in the Sūtra-text edited by Garbe should be a part of the next Sūtra. For this Sūtra cf. TB III.8.1.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For this offering see XIX.20.3. ↩︎