२७

01 असितवर्णा हरयः सुपर्णा ...{Loading}...

असितवर्णा हरयः सुपर्णा इति १

02 उत्करे कृष्णामपक्वां स्थालीमद्भिः ...{Loading}...

उत्करे कृष्णामपक्वां स्थालीमद्भिः पूरयति सृजा वृष्टिमिति २

03 यदि भिद्येत वर्षिष्यतीति ...{Loading}...

यदि भिद्येत वर्षिष्यतीति विद्यात् ३

04 अनस उपस्तम्भने शङ्कौ ...{Loading}...

अनस उपस्तम्भने शङ्कौ वा कृष्णाविर्बद्धा भवति ४

05 अब्जा असीति ताम् ...{Loading}...

अब्जा असीति तां प्रोक्षति ५

06 तस्यामश्ववद्विज्ञानमुपैति ...{Loading}...

तस्यामश्ववद्विज्ञानमुपैति ६

07 उत्करे वर्षाहूस्तम्बम् प्रतिष्ठाप्योन्नम्भय ...{Loading}...

उत्करे वर्षाहूस्तम्बं प्रतिष्ठाप्योन्नम्भय पृथिवीमिति वर्षाह्वां जुहोति ७

08 अपाम् पूर्णां स्रुचञ् ...{Loading}...

अपां पूर्णां स्रुचं जुहोतीत्येके ८

09 अथैनमाहवनीयेऽनुप्रहरति ...{Loading}...

अथैनमाहवनीयेऽनुप्रहरति ९

10 अथास्य धूममनुमन्त्रयते हिरण्यकेशो ...{Loading}...

अथास्य धूममनुमन्त्रयते हिरण्यकेशो रजसो विसार इति १०

11 ये देवा दिविभागा ...{Loading}...

ये देवा दिविभागा इत्युपर्याहवनीये कृष्णाजिनमवधूनोत्यूर्ध्वग्रिवं बहिष्टाद्विशसनम् ११

12 कृष्णं वासः कृष्णोऽश्वः ...{Loading}...

कृष्णं वासः कृष्णोऽश्वः कृष्णाविर्दक्षिणा १२

13 अथ सवकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गः ...{Loading}...

अथ सवकारीर्याग्नेय एवाष्टाकपालोऽनुपसर्गः १३

14 तस्योपहोमा वातनामानि याभिः ...{Loading}...

तस्योपहोमा वातनामानि याभिः पिण्डीराबध्नाति जुहोति याभ्यां च धूममनुमन्त्रयते १४

15 पूर्ववत्त्रिधातुमधिश्रयति यवमयस्तु मध्ये ...{Loading}...

पूर्ववत्त्रिधातुमधिश्रयति । यवमयस्तु मध्ये १५

16 ऐन्द्रावैष्णवं हविर्भवति ...{Loading}...

ऐन्द्रावैष्णवं हविर्भवति १६

17 प्र सो अग्न ...{Loading}...

प्र सो अग्न इत्युष्णिहककुभौ धाय्ये दधाति १७

18 अग्ने त्री ते ...{Loading}...

अग्ने त्री ते वजिना त्री षधस्थेति त्रिवत्या परिदधाति १८

19 सं वाङ् कर्मणोभा ...{Loading}...

सं वां कर्मणोभा जिग्यथुरिति याज्यानुवाक्ये १९

20 उत्तरे संयाज्ये ...{Loading}...

उत्तरे संयाज्ये २०

21 हिरण्यन् तार्प्यन् धेनुरिति ...{Loading}...

हिरण्यं तार्प्यं धेनुरिति दक्षिणा २१

22 ऐन्द्राबार्हस्पत्यञ् चरुन् निर्वपेद्राजन्ये ...{Loading}...

ऐन्द्राबार्हस्पत्यं चरुं निर्वपेद्राजन्ये जाते २२

23 हिरण्मयन् दाम दक्षिणा ...{Loading}...

हिरण्मयं दाम दक्षिणा दक्षिणा २३

इति सप्तविंशी कण्डिका इत्येकोनविंशः प्रश्नः


  1. TS III.1.1… ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS II.4.8.f. ↩︎ ↩︎ ↩︎ ↩︎

  3. See XIX 26.17-18. ↩︎ ↩︎

  4. See XIX.27.10. ↩︎