२६

01 पुरोवातो वर्षन्नित्यष्टौ वातनामानि ...{Loading}...

पुरोवातो वर्षन्नित्यष्टौ वातनामानि हुत्वान्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्खर्जूरसक्तून्करीरसक्तून्वा मान्दा वाशा इति कृष्णमधुषा संयुत्य तिस्रः पिण्डीः कृत्वा पुष्करपलाशैः संवेष्ट्य समुद्यम्य कृष्णाजिनस्यान्तान्वृष्णो अश्वस्य सन्दानमसीति कृष्णेन दाम्नोपनह्यति १

02 उत्करे प्रागीषन् त्रिगधमनोऽवस्थितम् ...{Loading}...

उत्करे प्रागीषं त्रिगधमनोऽवस्थितं भवति २

03 छदींषीत्यर्थः ...{Loading}...

छदींषीत्यर्थः ३

04 देवा वसव्या इति ...{Loading}...

देवा वसव्या इति पूर्वस्यां गधायां कृष्णाजिनमाबध्नीयात् ४

05 अहोरात्रावासक्तम् भवति ...{Loading}...

अहोरात्रावासक्तं भवति ५

06 यदि वर्षेत्पिण्डीरेव जुहुयात् ...{Loading}...

यदि वर्षेत्पिण्डीरेव जुहुयात् ६

07 यदि न वर्षेद्देवाः ...{Loading}...

यदि न वर्षेद्देवाः शर्मण्या इति मध्यमायामाबध्नीयात् ७

08 अहोरात्रावासक्तम् भवति ...{Loading}...

अहोरात्रावासक्तं भवति ८

09 यदि वर्षेत्पिण्डीरेव जुहुयात् ...{Loading}...

यदि वर्षेत्पिण्डीरेव जुहुयात् ९

10 यदि न वर्षेद्देवाः ...{Loading}...

यदि न वर्षेद्देवाः सपीतय इति जघन्यायामाबध्नीयात् १०

11 अहोरात्रावासक्तम् भवति ...{Loading}...

अहोरात्रावासक्तं भवति ११

12 यदि वर्षेत्पिण्डीरेव जुहुयात् ...{Loading}...

यदि वर्षेत्पिण्डीरेव जुहुयात् १२

13 यदि न वर्षेच्छो ...{Loading}...

यदि न वर्षेच्छो भूते धामच्छदादीनि त्रीणि हवींषि निर्वपति कृष्णानां व्रीहीणाम् । १३

14 तान्यासाद्योत्करे कृष्णाजिनमासादयति ...{Loading}...

तान्यासाद्योत्करे कृष्णाजिनमासादयति १४

15 कृष्णोष्णीषाः कृष्णवसना निवीता ...{Loading}...

कृष्णोष्णीषाः कृष्णवसना निवीता ऋत्विजः प्रचरन्ति १५

16 त्र्वन् त्या चिदच्युतेति ...{Loading}...

त्र्वं त्या चिदच्युतेति याज्यानुवाक्याः १६

17 उपहोमकाले दिवा चित्तमः ...{Loading}...

उपहोमकाले दिवा चित्तमः कृण्वन्तीत्येतैः प्रतिमन्त्रं पिण्डीराबध्नाति १७

18 जुहोतीत्येके ...{Loading}...

जुहोतीत्येके १८

19 अथासान् धूममनुमन्त्रयते ...{Loading}...

अथासां धूममनुमन्त्रयते १९

इति षड्विंशी कण्डिका


  1. Cf. TS II.4.9.1ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS II.4.7.c. ↩︎

  3. Cf. TS II.4.9.1ff. ↩︎

  4. TS II.4.7.d. ↩︎

  5. Cf. KS XI.10. ↩︎

  6. TS II.4.7.e. ↩︎