२५

01 ऐन्द्रावरुणम् पुरोडाशन् निरुप्यैन्द्रावरुणीम् …{Loading}…

ऐन्द्रावरुणं पुरोडाशं निरुप्यैन्द्रावरुणीं पयस्यां निर्वपेत् १

02 उद्वास्यालङ्कृत्य पयस्यायाम् पुरोडाशमवदधाति …{Loading}…

उद्वास्यालङ्कृत्य पयस्यायां पुरोडाशमवदधाति २

03 एतयैव प्रच्छाद्यासादयति …{Loading}…

एतयैव प्रच्छाद्यासादयति ३

04 अथास्मात्प्रतिदिशम् पयस्यां व्यूहति …{Loading}…

अथास्मात्प्रतिदिशं पयस्यां व्यूहति या वामिन्द्रावरुणा यतव्या तनूरिति ४

05 एतैरेव पुनः समूहति …{Loading}…

एतैरेव पुनः समूहति ५

06 अमुक्तमिति मन्त्रान्तान्सन्नमति …{Loading}…

अमुक्तमिति मन्त्रान्तान्सन्नमति ६

07 सहैव पयस्यायाः पुरोडाशस्यावद्यति …{Loading}…

सहैव पयस्यायाः पुरोडाशस्यावद्यति ७

08 यो वामिन्द्रावरुणावग्नौ स्राम …{Loading}…

यो वामिन्द्रावरुणावग्नौ स्राम इत्युपहोमाः ८

09 अग्नये संवर्गाय पुरोडाशमष्टाकपालमित्युक्तम् …{Loading}…

अग्नये संवर्गाय पुरोडाशमष्टाकपालमित्युक्तम् ९

10 युक्ष्वा हि देवहूतमानिनि …{Loading}…

युक्ष्वा हि देवहूतमानिनि पञ्चदश सामिधेनीरन्वाह १०

11 नित्यया परिदधाति …{Loading}…

नित्यया परिदधाति ११

12 कुवित्सु नो गविष्टय …{Loading}…

कुवित्सु नो गविष्टय इति याज्यानुवाक्ये १२

13 यस्याजुषद्विद्मा हि त …{Loading}…

यस्याजुषद्विद्मा हि त इति संयाज्ये १३

14 चित्रापूर्णमासे चित्रामिष्टिन् निर्वपेत् …{Loading}…

चित्रापूर्णमासे चित्रामिष्टिं निर्वपेत् । आग्नेयादीनि सप्त १४

15 अग्ने गोभिर्न आ …{Loading}…

अग्ने गोभिर्न आ गहीत्युपहोमाः १५

16 पुष्कलेषु नक्षत्रेषूदवसाय कारीर्या …{Loading}…

पुष्कलेषु नक्षत्रेषूदवसाय कारीर्या वृष्टिकामो यजेत १६

17 अग्नीनन्वाधायापरेणाहवनीयन् दक्षिणातिक्रम्योपविश्य यजमानो …{Loading}…

अग्नीनन्वाधायापरेणाहवनीयं दक्षिणातिक्रम्योपविश्य यजमानो मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परिधत्ते १७

18 रमयत मरुतः श्येनमायिनमिति …{Loading}…

रमयत मरुतः श्येनमायिनमिति पश्चाद्वातं प्रतिमीवति १८

19 पुरोवातमेव जनयत्येहि वातेति …{Loading}…

पुरोवातमेव जनयत्येहि वातेति १९

20 कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति …{Loading}…

कृष्णोऽश्वः पुरस्तात्प्रत्यङ्मुखोऽवस्थितो भवति २०

21 तमेतेन वाससाभिपिनष्ट्यभिक्रन्देति …{Loading}…

तमेतेन वाससाभिपिनष्ट्यभिक्रन्देति २१

22 यदि क्रन्देद्विधूनुयाच्छकृन्मूत्रं वा …{Loading}…

यदि क्रन्देद्विधूनुयाच्छकृन्मूत्रं वा कुर्याद्वर्षिष्यतीति विद्यात् २२

इति पञ्चविंशी कण्डिका