२४

01 उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रञ् ...{Loading}...

उपहोमकालेऽश्विनोः प्राणोऽसीत्येतैः प्रतिमन्त्रं चतुर उपहोमाञ्जुहोति १

02 हुत्वाहुत्वा प्रवर्तमभिघारयति राडसि ...{Loading}...

हुत्वाहुत्वा प्रवर्तमभिघारयति राडसि विराडसि सम्राडसि स्वराडसीति २

03 यत्खादिर आज्यन् तदग्रेणाहवनीयम् ...{Loading}...

यत्खादिर आज्यं तदग्रेणाहवनीयं पर्याहृत्य दक्षिणस्यां वेदिश्रोण्यां सादयति ३

04 तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य ...{Loading}...

तद्यजमानोऽवेक्षते घृतस्य धाराममृतस्य पन्थामिति ४

05 अथास्य ब्रह्मा दक्षिणं ...{Loading}...

अथास्य ब्रह्मा दक्षिणं हस्तं गृह्णाति ५

06 ब्रह्मण इतर ऋत्विजो ...{Loading}...

ब्रह्मण इतर ऋत्विजो हस्तमन्वारभ्य यजमानं पर्याहुः पावमानेन त्वा स्तोमेनेति ६

07 अथ यजमानो हिरण्याद्घृतन् ...{Loading}...

अथ यजमानो हिरण्याद्घृतं निष्पिबति ७

08 इममग्न आयुषे वर्चसे ...{Loading}...

इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते ८

09 उद्धृत्य हिरण्यम् प्रक्षाल्यायुष्टे ...{Loading}...

उद्धृत्य हिरण्यं प्रक्षाल्यायुष्टे विश्वतो दधदिति यजमानाय प्रयच्छति ९

10 तद्यजमान आचम्य प्रतिगृह्य ...{Loading}...

तद्यजमान आचम्य प्रतिगृह्य प्रदक्षिणं दक्षिणे कर्ण आबध्नात्यायुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि सर्वं म आयुर्भूयात्सर्वमायुर्गेषमिति १०

11 अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तङ् गृह्णाति ...{Loading}...

अग्निरायुष्मानित्यनुवाकशेषेणास्याध्वर्युर्दक्षिणं हस्तं गृह्णाति ११

12 सिद्धमिष्टिः सन्तिष्ठते ...{Loading}...

सिद्धमिष्टिः सन्तिष्ठते १२

इति चतुर्विंशी कण्डिका


  1. See II.21.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS II.3.10.10. ↩︎ ↩︎ ↩︎