२३

01 त्वामिद्धि हवामहे साता ...{Loading}...

त्वामिद्धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठोमित्यनूच्य स्वर्वतोऽभि त्वा शूर नोनुम इति यजेत् १

02 कदा चन स्तरीरसीत्यासाञ् ...{Loading}...

कदा चन स्तरीरसीत्यासां चतुर्थीं दधाति २

03 अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम् ...{Loading}...

अग्नये भ्राजस्वते पुरोडाशमष्टाकपालमित्युक्तम् ३

04 चतुर्धाकरणकाले सौर्यांस्त्रीन्पिण्डानुद्धृत्योदुन् त्यञ् ...{Loading}...

चतुर्धाकरणकाले सौर्यांस्त्रीन्पिण्डानुद्धृत्योदुं त्यं जातवेदसं सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति ४

05 तान्यजमानः प्राश्नाति ...{Loading}...

तान्यजमानः प्राश्नाति ५

06 वैश्वदेवीं साङ्ग्रहणीन् निर्वपेद्ग्रामकामः ...{Loading}...

वैश्वदेवीं साङ्ग्रहणीं निर्वपेद्ग्रामकामः ६

07 नवनीते श्रपयति ...{Loading}...

नवनीते श्रपयति ७

08 ध्रुवोऽसीत्येतैः प्रतिमन्त्रम् परिधीन्परिदधाति ...{Loading}...

ध्रुवोऽसीत्येतैः प्रतिमन्त्रं परिधीन्परिदधाति ८

09 आमनमसीत्युपहोमाः ...{Loading}...

आमनमसीत्युपहोमाः ९

10 यो ज्योगामयावी स्याद्यो ...{Loading}...

यो ज्योगामयावी स्याद्यो वा कामयेत सर्वमायुरियामिति तस्मा एतामिष्टिं निर्वपेत् । आग्नेयादीनि पञ्च १०

11 पात्रसंसादनकाले खादिरम् पात्रञ् ...{Loading}...

पात्रसंसादनकाले खादिरं पात्रं चतुःस्रक्ति प्रयुनक्ति । सौवर्न च प्रवर्तं शतमानस्य कृतम् ११

12 अथो खलु यावतीः ...{Loading}...

अथो खलु यावतीः समा एष्यन्मन्येत तावन्मानं स्यात् १२

13 यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले तूष्णीङ् खादिरे ...{Loading}...

यन्नवमैत्तन्नवनीतमभवदित्याज्यमवेक्ष्याज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति १३

इति त्रयोविंशी कण्डिका


  1. TS II.3.8.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. CI. TS II.3.8.2. ↩︎ ↩︎ ↩︎

  3. TS II.4.14.n,o.p. ↩︎ ↩︎

  4. After what is mentioned in II.9.15. ↩︎