२२

01 प्रथमम् पुरोडाशमधिश्रित्य परितपनान्तङ् ...{Loading}...

प्रथमं पुरोडाशमधिश्रित्य परितपनान्तं कृत्वा तस्मिन्नुत्तरं ज्यायांसमधिश्रित्य तदन्तमेव कृत्वा तस्मिन्नुत्तरं ज्यायांसमधिश्रयति १

02 प्रचरणकाले दक्षिणार्धात्प्रथमान् देवतां ...{Loading}...

प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेत् । मध्याद्द्वितीयाम् । उत्तरार्धात्तृतीयाम् २

03 सर्वेषामभिगमयन्नवद्यतीत्युक्तम् ...{Loading}...

सर्वेषामभिगमयन्नवद्यतीत्युक्तम् ३

04 प्राच्यान् दिशि त्वमिन्द्रेति ...{Loading}...

प्राच्यां दिशि त्वमिन्द्रेति तिस्र ऋचो व्यत्यासमन्वाह ४

05 प्रथमामनूच्य मध्यमया यजेत् ...{Loading}...

प्रथमामनूच्य मध्यमया यजेत् । मध्यमामनूच्योत्तमया यजेत् । उत्तमामनूच्य प्रथमया यजेत् ५

06 एवं सर्वा याज्याः ...{Loading}...

एवं सर्वा याज्याः पुरोऽनुवाक्याश्च भवन्ति ६

07 सर्वपृष्ठान् निर्वपति ...{Loading}...

सर्वपृष्ठां निर्वपति ७

08 यदिन्द्राय राथन्तरायेति यथासमाम्नातन् ...{Loading}...

यदिन्द्राय राथन्तरायेति यथासमाम्नातं द्वादशसूत्तानेषु कपालेष्वधिश्रयति ८

09 प्रचरणकाले पूर्वार्धात्प्रथमान् देवतां ...{Loading}...

प्रचरणकाले पूर्वार्धात्प्रथमां देवतां यजति ९

10 एवमितराः प्रदक्षिणमुत्तरापवर्गम् ...{Loading}...

एवमितराः प्रदक्षिणमुत्तरापवर्गम् १०

11 समन्तम् पर्यवद्यतीत्युक्तम् ...{Loading}...

समन्तं पर्यवद्यतीत्युक्तम् ११

12 अभि त्वा शूर ...{Loading}...

अभि त्वा शूर नोनुम इति षडृचो व्यत्यासमन्वाह १२

13 न बृहत्या वषट्कुर्यात् ...{Loading}...

न बृहत्या वषट्कुर्यात् १३

14 अनुवाक्यायाश्चत्वार्यक्षराणि याज्याङ् गमयेत् ...{Loading}...

अनुवाक्यायाश्चत्वार्यक्षराणि याज्यां गमयेत् १४

15 अनुष्टुभञ् च ह ...{Loading}...

अनुष्टुभं च ह वा एतत्सम्पादयन्ति पङ्क्तिं चेति ते मन्यामहे १५

16 अभि त्वा शूर ...{Loading}...

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः । ईशानमस्य जगतः सुवर्दृशमीशानमोमित्यनूच्य न्द्र तस्थुष स्त्वामिद्धि हवामह इति यजेत् १६

इति द्वाविंशी कण्डिका


  1. TS II.3.6.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For the details of entwinning see the next two Sūtras. ↩︎ ↩︎