२१

01 प्राजापत्यां शतकृष्णलान् निर्वपेदायुष्कामः …{Loading}…

प्राजापत्यां शतकृष्णलां निर्वपेदायुष्कामः १

02 शतं हिरण्यकृष्णलानि काकिण्या …{Loading}…

शतं हिरण्यकृष्णलानि काकिण्या माषेण वा सम्मितानि २

03 तानि पवित्रवत्याज्य आवपति …{Loading}…

तानि पवित्रवत्याज्य आवपति ३

04 धर्ममात्रं श्रपणम् …{Loading}…

धर्ममात्रं श्रपणम् ४

05 प्रचरणकालेऽष्टौ देवताया अवद्यति …{Loading}…

प्रचरणकालेऽष्टौ देवताया अवद्यति । चत्वारि स्विष्टकृति । द्वे प्राशित्रेष्टाविडायाम् ५

06 चतुर्धाकरनकाले सर्वाणि प्राशित्रे …{Loading}…

चतुर्धाकरनकाले सर्वाणि प्राशित्रे समोप्यैकधा ब्रह्मण उपहरति ६

07 तानि ब्रह्मा भक्षयति …{Loading}…

तानि ब्रह्मा भक्षयति ७

08 भक्षापनय इतरेषाम् …{Loading}…

भक्षापनय इतरेषाम् ८

09 सौर्यञ् चरुं रुक्माभ्याम् …{Loading}…

सौर्यं चरुं रुक्माभ्यां परिगृह्यासादयति ९

10 तस्य प्रयाजेप्रयाजे कृष्णलञ् …{Loading}…

तस्य प्रयाजेप्रयाजे कृष्णलं जुहोति १०

11 अपोह्य रुक्मौ चरुणा …{Loading}…

अपोह्य रुक्मौ चरुणा प्रचरति ११

12 एतावेव रुक्मौ दक्षिणा …{Loading}…

एतावेव रुक्मौ दक्षिणा १२

13 अग्नये दात्रे पुरोडाशमष्टाकपालमिति …{Loading}…

अग्नये दात्रे पुरोडाशमष्टाकपालमिति त्रीणि १३

14 तेषाम् प्राजापत्यं संसृष्टहविस्तृतीयम् …{Loading}…

तेषां प्राजापत्यं संसृष्टहविस्तृतीयं भवति १४

15 दधि मधु घृतमापो …{Loading}…

दधि मधु घृतमापो धानास्तण्डुला इत्येके षामाज्यविकारः १५

16 मधूदके संसृष्टे मुख्ये …{Loading}…

मधूदके संसृष्टे मुख्ये स्वाधर्म्यम् १६

17 घृतन् न पूतमुभे …{Loading}…

घृतं न पूतमुभे सुश्चन्द्रेति याज्यानुवाक्ये भवतः १७

18 आग्नेयस्य च सौम्यस्य …{Loading}…

आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति संहितानि हवींष्यधिश्रयेदित्यर्थः १८

19 लेपौ वास्मिन्समाश्लेषयेत् …{Loading}…

लेपौ वास्मिन्समाश्लेषयेत् १९

20 ब्रह्मन्विशं विनाशयेयमिति सर्वम् …{Loading}…

ब्रह्मन्विशं विनाशयेयमिति सर्वं ब्राह्मणस्पत्यं भवति २०

21 मारुती याज्यानुवाक्ये कुर्यात् …{Loading}…

मारुती याज्यानुवाक्ये कुर्यात् २१

22 अथैतन् त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति …{Loading}…

अथैतं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति २२

इत्येकविंशी कण्डिका


  1. Cf. TS II.3.2.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎