२०

01 उपाधाय्यपूर्वयं वासो दक्षिणा …{Loading}…

उपाधाय्यपूर्वयं वासो दक्षिणा १

02 चित्रान्तमित्यर्थः …{Loading}…

चित्रान्तमित्यर्थः २

03 सञ्ज्ञानीम् पृथङ्निरुप्य सर्वतः …{Loading}…

सञ्ज्ञानीं पृथङ्निरुप्य सर्वतः समवदाय सर्वा देवता अनुद्रुत्य सम्प्रेष्यति ३

04 अग्निः प्रथमो वसुभिरिति …{Loading}…

अग्निः प्रथमो वसुभिरिति सर्वदेवत्ये याज्यानुवाक्ये भवतः ४

05 अपरुद्धोऽपरुध्यमानो वा धारयद्वतीयन् …{Loading}…

अपरुद्धोऽपरुध्यमानो वा धारयद्वतीयं निरुप्यासीत यावदेनं नापरुन्ध्युः ५

06 अथापरुध्यमानोऽदिते ऽनुमन्यस्वेत्यपरोद्धुः पदमादाय …{Loading}…

अथापरुध्यमानोऽदिते ऽनुमन्यस्वेत्यपरोद्धुः पदमादाय गच्छेत् ६

07 यः परस्ताद्ग्राम्यवादी स्यात्तस्य …{Loading}…

यः परस्ताद्ग्राम्यवादी स्यात्तस्य गृहाद्व्रीहीनाहरेत् ७

08 शुक्लांश्च कृष्णांश्च विचिनुयात् …{Loading}…

शुक्लांश्च कृष्णांश्च विचिनुयात् ८

09 ये शुक्लाः स्युस्तमादित्यञ् …{Loading}…

ये शुक्लाः स्युस्तमादित्यं चरुं निर्वपेत् ९

10 ये कृष्णास्तान्कृष्णाजिन उपनह्य …{Loading}…

ये कृष्णास्तान्कृष्णाजिन उपनह्य निधाय हविष्कृता वाचं विसृज्योप प्रेत मरुतः सुदानव इति यजमानमभ्यैति १०

11 सत्याशीरिति यजमानस्योत्तरे वाससि …{Loading}…

सत्याशीरिति यजमानस्योत्तरे वाससि पदैकदेशं निवपति ११

12 इह मन इत्युरसि …{Loading}…

इह मन इत्युरसि शेषं निनयति १२

13 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते १३

14 यदि नावगच्छेदिममहमादित्येभ्यो भागन् …{Loading}…

यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरित्यपरोद्धुर्नाम गृह्णीयात्तस्यै च विशः १४

15 यदि नावगच्छेदाश्वत्थान्मयूखान्सप्त मध्यमेषायामुपहन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै …{Loading}…

यदि नावगच्छेदाश्वत्थान्मयूखान्सप्त मध्यमेषायामुपहन्यादिदमहमादित्यान्बध्नाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति । त्रीन्प्राचश्चतुर उदीचः १५

16 यदि नावगच्छेदेतमेवादित्यञ् चरुन् …{Loading}…

यदि नावगच्छेदेतमेवादित्यं चरुं निर्वपेत् १६

17 इध्मेऽपि मयूखान्सन्नह्येत् …{Loading}…

इध्मेऽपि मयूखान्सन्नह्येत् १७

18 तान्सहेध्मेनाभ्यादध्यात् …{Loading}…

तान्सहेध्मेनाभ्यादध्यात् १८

19 अवगतः कृष्णानां व्रीहीणां …{Loading}…

अवगतः कृष्णानां व्रीहीणां वारुणं चरुं निर्वपति १९

20 सिद्धमिष्टिः सन्तिष्ठते …{Loading}…

सिद्धमिष्टिः सन्तिष्ठते २०

इति विंशी कण्डिका


  1. Cf. TS II.2.11.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. Caland, Wūnschopfer, no. 117. ↩︎