१९

01 आदित्यञ् चरुन् निर्वपेत्सङ्ग्राममुपप्रयास्यन् ...{Loading}...

आदित्यं चरुं निर्वपेत्सङ्ग्राममुपप्रयास्यन् १

02 वैश्वानरन् द्वादशकपालन् निर्वपेत्सङ्ग्रामायतनङ् ...{Loading}...

वैश्वानरं द्वादशकपालं निर्वपेत्सङ्ग्रामायतनं गत्वा २

03 यया रज्ज्वोत्तमाङ् गामाजेत्तया ...{Loading}...

यया रज्ज्वोत्तमां गामाजेत्तया भ्रातृव्यगवीमभिदध्याद्गोष्ठे वास्य न्यस्येत् ३

04 बल्बजानपीध्मे सन्नह्येत् ...{Loading}...

बल्बजानपीध्मे सन्नह्येत् ४

05 तान्सहेध्मेन प्रोक्षेत् ...{Loading}...

तान्सहेध्मेन प्रोक्षेत् ५

06 सरस्वत्याज्यभागेत्याज्यहविर्भवति ...{Loading}...

सरस्वत्याज्यभागेत्याज्यहविर्भवति ६

07 आज्यम् प्रोक्षणमाज्येन मार्जयन्त ...{Loading}...

आज्यं प्रोक्षणमाज्येन मार्जयन्त इति सर्वप्रोक्षणमार्जनानीत्याज्येन ७

08 मानवी ऋचौ धाय्ये ...{Loading}...

मानवी ऋचौ धाय्ये कुर्यात् । मक्षू देववत इत्येतासां द्वे ८

09 एतामेव निर्वपेदायतनङ् गत्वा ...{Loading}...

एतामेव निर्वपेदायतनं गत्वा ९

10 भ्रातृव्यक्षेत्रङ् गत्वैतामिष्टिन् निर्वपेत् ...{Loading}...

भ्रातृव्यक्षेत्रं गत्वैतामिष्टिं निर्वपेत् १०

11 तत्र दक्षिणमर्धं वेद्या ...{Loading}...

तत्र दक्षिणमर्धं वेद्या उद्धत्य तदेवार्धेन बर्हिष स्तृणीयात् । अर्धमिध्मस्याभ्यादध्यात् ११

12 ऐन्द्रमेकादशकपालन् निर्वपेन्मारुतं सप्तकपालङ् ...{Loading}...

ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः १२

13 आहवनीय ऐन्द्रमधिश्रयति गार्हपत्ये ...{Loading}...

आहवनीय ऐन्द्रमधिश्रयति । गार्हपत्ये मारुतम् १३

14 काल ऐन्द्रमासादयति सामिधेनीष्वनूच्यमानासु ...{Loading}...

काल ऐन्द्रमासादयति । सामिधेनीष्वनूच्यमानासु मारुतम् १४

15 अथ यत्रेन्द्रायानुब्रूहीत्यैन्द्री पुरोऽनुवाक्या ...{Loading}...

अथ यत्रेन्द्रायानुब्रूहीत्यैन्द्री पुरोऽनुवाक्या । मरुतो यजेति मारुती याज्या । मरुद्भ्योऽनुब्रूहीति मारुती पुरोऽनुवाक्या । इन्द्रं यजेत्यैन्द्री याज्या १५

16 ऐन्द्रमेकादशकपालन् निर्वपेद्वैश्वदेवन् द्वादशकपालङ् ...{Loading}...

ऐन्द्रमेकादशकपालं निर्वपेद्वैश्वदेवं द्वादशकपालं ग्रामकामः १६

17 तत्रैन्द्रस्य प्रथममवदानमवदायोभे वैश्वदेवस्यावद्येत् ...{Loading}...

तत्रैन्द्रस्य प्रथममवदानमवदायोभे वैश्वदेवस्यावद्येत् । अथैन्द्रस्यावशिष्टमुपरिष्टात् १७

18 इन्द्राय विश्वेभ्यो देवेभ्योऽनुब्रूहीन्द्रं ...{Loading}...

इन्द्राय विश्वेभ्यो देवेभ्योऽनुब्रूहीन्द्रं विश्वान्देवान्यजेति सम्प्रेष्यति १८

19 भरेष्विन्द्रमिति याज्यानुवाक्ये भवतः ...{Loading}...

भरेष्विन्द्रमिति याज्यानुवाक्ये भवतः १९

इत्येकोनविंशी कण्डिका


  1. Cf. TS II.2.6.1. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS IL.8.22.1-m. ↩︎