१८

01 काम्याभिरिष्टिभिरमावास्यायाम् पौर्णमास्यां वा ...{Loading}...

काम्याभिरिष्टिभिरमावास्यायां पौर्णमास्यां वा यजेत १

02 ता ब्राह्मणव्याख्याताः ...{Loading}...

ता ब्राह्मणव्याख्याताः २

03 समिध्यमानवतीं समिद्धवतीञ् चान्तरेण ...{Loading}...

समिध्यमानवतीं समिद्धवतीं चान्तरेण पृथुपाजवत्यौ धाय्ये दधाति । यथादिष्टं वानुपदावाज्यभागौ ३

04 यत्कामेष्टिस्तत्प्रवादौ स्यातान् तदर्थत्वात्तल्लिङ्गत्वात् ...{Loading}...

यत्कामेष्टिस्तत्प्रवादौ स्यातां तदर्थत्वात्तल्लिङ्गत्वात् । तद्देवतौ वा । प्राकृतौ वा ४

05 अनादेशे प्रकृतिः प्रत्येतव्या ...{Loading}...

अनादेशे प्रकृतिः प्रत्येतव्या ५

06 अनुष्टुभौ संयाज्ये ...{Loading}...

अनुष्टुभौ संयाज्ये ६

07 त्वाञ् चित्रश्रवस्तम त्वामग्ने ...{Loading}...

त्वां चित्रश्रवस्तम । त्वामग्ने हविष्मन्तो देवं मर्तास ईडते । मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषगित्येते आम्नाते भवतः ७

08 उभा वामिन्द्राग्नी आहुवध्या ...{Loading}...

उभा वामिन्द्राग्नी आहुवध्या इत्येतासां यथापूर्वमाम्नाता याज्यानुवाक्या लिङ्गैर्नियम्यन्ते ८

09 पूर्वस्मिन्नर्धर्चे देवता पुरस्ताल्लक्ष्मा ...{Loading}...

पूर्वस्मिन्नर्धर्चे देवता पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या । उपरिष्टाल्लक्ष्मा याज्या ९

10 एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् १०

11 अवशिष्टा विकल्पार्थाः ...{Loading}...

अवशिष्टा विकल्पार्थाः ११

12 उपहोमा वा तत्र ...{Loading}...

उपहोमा वा तत्र सन्दिग्धाः १२

13 अनुक्रमिष्यामः ...{Loading}...

अनुक्रमिष्यामः १३

14 अग्नये रक्षोख्ने पुरोडाशमष्टाकपालममावास्यायान् ...{Loading}...

अग्नये रक्षोख्ने पुरोडाशमष्टाकपालममावास्यायां निशायां निर्वपेत्तस्याः साद्गुण्यसामर्थ्यात् १४

15 अमावास्यायाः कालापनयः स्यात् ...{Loading}...

अमावास्यायाः कालापनयः स्यात् १५

16 कृणुष्व पाज इति ...{Loading}...

कृणुष्व पाज इति रक्षोघ्नीः पराचीः सामिधेनीरम्वाह १६

17 वि ज्योतिषेति याज्यानुवाक्ये ...{Loading}...

वि ज्योतिषेति याज्यानुवाक्ये भवतः १७

इत्यष्टादशी कण्डिका


  1. TS II.2.1-4.14.5. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB II.4.1.4f. ↩︎ ↩︎ ↩︎