१७

01 ऋषभे गोषु जीर्णे ...{Loading}...

ऋषभे गोषु जीर्णे यूनः कर्णमाजपेत्पिशङ्गरूपस्तन्नस्तुरीपमित्येताभ्याम् १

02 अथैनङ् गोष्वपिसृजत्येतं युवानमिति ...{Loading}...

अथैनं गोष्वपिसृजत्येतं युवानमिति २

03 अथ जीर्णमालभते प्राजापत्यमैन्द्रन् ...{Loading}...

अथ जीर्णमालभते प्राजापत्यमैन्द्रं त्वाष्ट्रं वा ३

04 नमो महिम्न इत्युपाकरणेऽनुवर्तयते ...{Loading}...

नमो महिम्न इत्युपाकरणेऽनुवर्तयते ४

05 तृतीयया वपाञ् जुहोति ...{Loading}...

तृतीयया वपां जुहोति । चतुर्थ्या हविः । पञ्चम्या सौविष्टकृतम् ५

06 आग्नेयमष्टाकपालन् निरुप्याजां वशामालभते ...{Loading}...

आग्नेयमष्टाकपालं निरुप्याजां वशामालभते ६

07 वायव्यामालभेत भूतिकाम इत्युक्तानि ...{Loading}...

वायव्यामालभेत भूतिकाम इत्युक्तानि दैवतानि ७

08 वायव्ययोपाकरोत्या वायो भूष ...{Loading}...

वायव्ययोपाकरोत्या वायो भूष शुचिपा इति ८

09 आकूत्यै त्वा कामाय ...{Loading}...

आकूत्यै त्वा कामाय त्वेति पर्यग्नौ क्रियमाणे जुहोति ९

10 त्वन् तुरीया वशिनी ...{Loading}...

त्वं तुरीया वशिनी वशासीत्युदीचीं नीयमानामनुमन्त्रयते १०

11 अजासि रयिष्ठेति निहन्यमानाम् ...{Loading}...

अजासि रयिष्ठेति निहन्यमानाम् ११

12 तन्तुन् तन्वन्निति वपाञ् ...{Loading}...

तन्तुं तन्वन्निति वपां जुहोति १२

13 अनुल्बणं वयत जोगुवामप ...{Loading}...

अनुल्बणं वयत जोगुवामप इति हविः १३

14 मनसो हविरसीति हविःशेषान्प्राश्नन्ति ...{Loading}...

मनसो हविरसीति हविःशेषान्प्राश्नन्ति १४

15 सा वा एषा ...{Loading}...

सा वा एषा त्रयाणामेवावरुद्धेत्युक्तम् १५

16 तस्यै वा एतस्या ...{Loading}...

तस्यै वा एतस्या एकमेवादेवयजनं यदालब्धायामभ्रो भवति १६

17 यदालब्धायामभ्रः स्यादप्सु वा ...{Loading}...

यदालब्धायामभ्रः स्यादप्सु वा प्रवेशयेत्सर्वां वा यजमान एवान्वहं प्राश्नीयात् १७

18 जयाभ्याताना राष्ट्रभृत इति ...{Loading}...

जयाभ्याताना राष्ट्रभृत इति ब्राह्मणव्याख्याताः १८

19 अस्मिन्ब्रह्मन्नित्यभ्यातानेष्वनुषजति ...{Loading}...

अस्मिन्ब्रह्मन्नित्यभ्यातानेष्वनुषजति १९

20 येन कर्मणेर्त्सेत्तत्र होतव्या ...{Loading}...

येन कर्मणेर्त्सेत्तत्र होतव्या ऋध्नोत्येव तेन कर्मणेति विज्ञायते २०

इति सप्तदशी कण्डिका