१६

01 काम्यैः पशुभिरमावास्यायाम् पौर्णमास्यां …{Loading}…

काम्यैः पशुभिरमावास्यायां पौर्णमास्यां वा यजेत १

02 तेषान् निरूढपशुबन्धवत्कल्पः …{Loading}…

तेषां निरूढपशुबन्धवत्कल्पः २

03 वायव्यं श्वेतमिति ते …{Loading}…

वायव्यं श्वेतमिति ते ब्राह्मणव्याख्याताः ३

04 तेषामावापिकेषु स्थानेषु यथादेवतं …{Loading}…

तेषामावापिकेषु स्थानेषु यथादेवतं षडृचो निदधाति । वपायाः पुरोडाशस्य हविष इति द्वेद्वे ४

05 पीवोऽन्नां रयिवृधः सुमेधा …{Loading}…

पीवोऽन्नां रयिवृधः सुमेधा इत्येतानि यथापूर्वं यथालिङ्गमाम्नातानि भवन्ति ५

06 सर्वेष्वाभिचरणिकेषु लोहितोष्णीषा लोहितवसना …{Loading}…

सर्वेष्वाभिचरणिकेषु लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति मल्हा इति ६

07 मणिला इत्यर्थः …{Loading}…

मणिला इत्यर्थः ७

08 विषम आलभेतेति विषमन् …{Loading}…

विषम आलभेतेति विषमं देवयजनं स्यात्पशुं वा विषम आलभेत ८

09 दशर्षभाया दैवते मीमांसा …{Loading}…

दशर्षभाया दैवते मीमांसा ९

10 आदित्या स्यात्प्राजापत्या वैकादशिनदेवता …{Loading}…

आदित्या स्यात्प्राजापत्या वैकादशिनदेवता वा यद्देवता वा गर्भिणयः १०

11 पर्यारिणीति परिहारसूर्भवति …{Loading}…

पर्यारिणीति परिहारसूर्भवति ११

12 स्फ्यो यूप इति …{Loading}…

स्फ्यो यूप इति स्फ्याकृतियूप अग्न्यागारिको वा १२

13 त्वाष्ट्रं वडबमिति यम् …{Loading}…

त्वाष्ट्रं वडबमिति यं पुमांसं सन्तमारोहति १३

14 अपाञ् चौषधीनाञ् च …{Loading}…

अपां चौषधीनां च सन्धाविति प्रावृषि शरत्प्रतिपत्तौ वा । अपि वापां चौषधीनां च सन्धौ १४

15 विशाखो यूप इति …{Loading}…

विशाखो यूप इति यदूर्ध्वं रशनायास्तद्विशाखम् । यद्वोपरादुभे शाखे अष्टाश्री सचषाले स्याताम् १५

16 प्राशृङ्गो ऽवाशृङ्ग उक्षा …{Loading}…

प्राशृङ्गो ऽवाशृङ्ग उक्षा वशा वेहद्धेनुर्वत्स ऋषभोऽनड्वान्पुनरुत्सृष्टो गोमृग इति गव्याः १६

17 अन्नाय वेहतमालभते वाचे …{Loading}…

अन्नाय वेहतमालभते । वाचे व्रेहतम् । श्रद्धायै वेहतम् । ब्रह्मण ऋषभम् १७

18 आ गावो अग्मन्नित्युपहोमाः …{Loading}…

आ गावो अग्मन्नित्युपहोमाः १८

19 मृत्यवे वेहतम् …{Loading}…

मृत्यवे वेहतम् १९

20 तत्र भर्तारमुपजुहुयात् …{Loading}…

तत्र भर्तारमुपजुहुयात् २०

21 सूर्याचन्द्रमोभ्यां यमौ श्वेतङ् …{Loading}…

सूर्याचन्द्रमोभ्यां यमौ श्वेतं कृष्णं चैकयूपे २१

22 अद्भ्यो वेहतम् …{Loading}…

अद्भ्यो वेहतम् २२

23 तत्र सलिलमुपजुहुयात् …{Loading}…

तत्र सलिलमुपजुहुयात् २३

24 भगाय वाशितामिति …{Loading}…

भगाय वाशितामिति २४

25 य ऊर्ध्वमाश्विनात्पशवस्तेषां सूक्तक्रमेण …{Loading}…

य ऊर्ध्वमाश्विनात्पशवस्तेषां सूक्तक्रमेण विधिः २५

इति षोडशी कण्डिका


  1. Cp. VII.1.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. VII.22.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf VII.25.9. ↩︎ ↩︎ ↩︎

  4. TS II.1.5.3. ↩︎

  5. TS II.1.4.7. ↩︎

  6. TS II.1.4.8. ↩︎

  7. TS II.1.4.6. ↩︎

  8. TS II.1.5.5. ↩︎