१५

01 एतेन वैश्वसृजो व्याख्यातः …{Loading}…

एतेन वैश्वसृजो व्याख्यातः १

02 यावन्मन्त्रं हिरण्येष्टकाः शर्करा …{Loading}…

यावन्मन्त्रं हिरण्येष्टकाः शर्करा वाभ्यक्ताः २

03 उपधानकालेऽग्रेणोत्तरनाभिं यच्चामृतं यच्च …{Loading}…

उपधानकालेऽग्रेणोत्तरनाभिं यच्चामृतं यच्च मर्त्यमित्येतैस्त्रिभिरनुवाकैरभिदक्षिणमग्निं परिचिनोति ३

04 तिस्रो वा चितयस्त्रिभिरनुवाकैः …{Loading}…

तिस्रो वा चितयस्त्रिभिरनुवाकैः ४

05 स्वयमातृणादि समानमुत्तरमन्यत्रानुशंसनात् …{Loading}…

स्वयमातृणादि समानमुत्तरमन्यत्रानुशंसनात् ५

06 ऋचाम् प्राची महती …{Loading}…

ऋचां प्राची महती दिगुच्यत इत्यनेनानुवाकेनानुशंसति ६

07 रात्रिसत्त्रेषु शतरात्रान्तेषु समहाव्रतेषु …{Loading}…

रात्रिसत्त्रेषु शतरात्रान्तेषु समहाव्रतेषु त्रिषु च सारस्वतेषु सत्त्रेषु काठकचातुर्मास्येषु साध्यानां षडहवर्जितेषु विश्वसृजामयने प्रजापतेः सहस्रसंवत्सरयोश्च वैश्वसृजोऽग्निर्नियतः ७

08 अभिप्रयायञ् चेदभिचिनुयुरुत्तरवेदिदेशमेतैर्मन्त्रैरभिमृशेत् …{Loading}…

अभिप्रयायं चेदभिचिनुयुरुत्तरवेदिदेशमेतैर्मन्त्रैरभिमृशेत् ८

09 योऽस्य सुप्रियः सुविचित …{Loading}…

योऽस्य सुप्रियः सुविचित इव स्यात्तस्मै वैश्वसृजम् । तृतीये वा पर्याये ९

10 सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकान्समस्यन्सौम्येऽप्यध्वरे चिन्वीत …{Loading}…

सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकान्समस्यन्सौम्येऽप्यध्वरे चिन्वीत १०

11 सावित्रः प्रथमा चितिः …{Loading}…

सावित्रः प्रथमा चितिः । लोकम्पृणा द्वितीया । नाचिकेतस्तृतीया । लोकम्पृणा चतुर्थी । चातुर्होत्रः पञ्चमी । वैश्वसृजः षष्ठी । आरुणकेतुकः सप्तमी ११

12 सवनीययूष्णो मृत्यवे ग्रहङ् …{Loading}…

सवनीययूष्णो मृत्यवे ग्रहं गृह्णाति १२

13 य एतानग्नीन्पृथक् समासेन …{Loading}…

य एतानग्नीन्पृथक् समासेन वा चिन्वान उभयीर्दक्षिणा ददाति क्रतुदक्षिणा यथासमाम्नातमग्निदक्षिणाश्चेति १३

14 अत्र पृथगप्रयुज्य न …{Loading}…

अत्र पृथगप्रयुज्य न समस्यन्ते १४

15 अग्निञ् चित्वा सौत्रामण्या …{Loading}…

अग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या वामिक्षया १५

16 आरुणकेतुको ब्राह्मणव्याख्यातः …{Loading}…

आरुणकेतुको ब्राह्मणव्याख्यातः १६

17 दिवः श्येनीभिरन्वहं स्वर्गकामो …{Loading}…

दिवः श्येनीभिरन्वहं स्वर्गकामो यजेत । अपाद्याभिश्च १७

18 ता ब्राह्मणव्याख्याताः …{Loading}…

ता ब्राह्मणव्याख्याताः १८

इति पञ्चदशी कण्डिका


  1. Forty-two. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIX.14.26. ↩︎ ↩︎ ↩︎

  3. Perhaps the Cāturmāsya-sacrifices mentioned in XXII.8.1-9.7 are meant. ↩︎

  4. See XXIII. 11.15-12.1; XXII.12.2. ↩︎

  5. We should read …ayanaprajāpateḥ…. For these sessions see XXIII.14.12-13 and XXIII.14.14 respectively. ↩︎