१४

01 एतेन नाचिकेतो व्याख्यातः ...{Loading}...

एतेन नाचिकेतो व्याख्यातः १

02 नात्र लेखा भवन्ति ...{Loading}...

नात्र लेखा भवन्ति २

03 एकविंशतिर्हिरण्येष्टकाः शर्करा वाभ्यक्ता ...{Loading}...

एकविंशतिर्हिरण्येष्टकाः शर्करा वाभ्यक्ता उपधानकाले नाभ्यामेवोपधीयन्ते चतुरश्रं परिमण्डलं वा लोकोऽसि स्वर्गोऽसीत्यनुवाकेन प्रतिमन्त्रम् ३

04 तं हैतमेके पशुबन्ध ...{Loading}...

तं हैतमेके पशुबन्ध एवोत्तरवेद्यां चिन्वत इति ब्राह्मणव्याख्याता विकाराः ४

05 ताननुक्रमिष्यामः ...{Loading}...

ताननुक्रमिष्यामः ५

06 पशुबन्धे सोमे सत्त्रे ...{Loading}...

पशुबन्धे सोमे सत्त्रे सहस्रे सर्ववेदसे वा यत्र वा भूयिष्ठा आहुतयो हूयेरंस्तत्र चेतव्यः ६

07 सत्त्रे प्रतिष्ठामीप्सन्यशः प्रजाम् ...{Loading}...

सत्त्रे प्रतिष्ठामीप्सन्यशः प्रजां पशून्स्वर्गमृद्धिमीप्सन्यथावकाशं यथासमाम्नातम् ७

08 सर्वत्र पुरस्तादुपक्रमः प्रदक्षिणमुत्तरतोऽपवर्गः ...{Loading}...

सर्वत्र पुरस्तादुपक्रमः प्रदक्षिणमुत्तरतोऽपवर्गः ८

09 पशुकामः पाङ्क्तमेव चिन्वीत ...{Loading}...

पशुकामः पाङ्क्तमेव चिन्वीत । पञ्चपञ्च प्रतिदिशमेकां मध्ये ९

10 ज्यैष्ठ्यमीप्सन्यशः प्रजां वा ...{Loading}...

ज्यैष्ठ्यमीप्सन्यशः प्रजां वा त्रिवृतमेव । सप्त पुरस्तात्तिस्रो दक्षिणतः सप्त पश्चात्तिस्र उत्तरत एकां मध्ये १०

11 ज्यैष्ठ्यकामो मध्यात्प्रक्रम्योर्ध्वां रीतिम् ...{Loading}...

ज्यैष्ठ्यकामो मध्यात्प्रक्रम्योर्ध्वां रीतिं प्रतिपादयेत् ११

12 स्वर्गकामः पश्चात्प्रक्रम्य प्राचीं ...{Loading}...

स्वर्गकामः पश्चात्प्रक्रम्य प्राचीं रीतिं प्रतिपादयेत् १२

13 स यदीच्छेत्तेजस्वी यशस्वी ...{Loading}...

स यदीच्छेत्तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति प्राग्दक्षिणेभ्यः प्राङा होतुर्धिष्ण्यादुत्सर्पेद्येयं प्रागाद्यशस्वती सा मा प्रोर्णोतु तेजसा यशसा ब्रह्मवर्चसेनेति १३

14 अथ यदीच्छेद्भूयिष्ठम् मे ...{Loading}...

अथ यदीच्छेद्भूयिष्ठं मे श्रद्दधीरन्भूयिष्ठा दक्षिणा नयेयुरिति दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति १४

15 प्राची जुषाणा वेत्वाज्यस्य ...{Loading}...

प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्याहवनीये जुहुयात् १५

16 स्वयमातृणादि समानमुत्तरम् ...{Loading}...

स्वयमातृणादि समानमुत्तरम् १६

17 सन्तिष्ठते नाचिकेतः ...{Loading}...

सन्तिष्ठते नाचिकेतः १७

18 एतेन चातुर्होत्रो व्याख्यातः ...{Loading}...

एतेन चातुर्होत्रो व्याख्यातः १८

19 यावत्पदं हिरण्येष्टकाः शर्करा ...{Loading}...

यावत्पदं हिरण्येष्टकाः शर्करा वाभ्यक्ताः १९

20 उपधानकालेऽग्रेण दर्भस्तम्बन् दशहोतारम् ...{Loading}...

उपधानकालेऽग्रेण दर्भस्तम्बं दशहोतारं प्रतिमन्त्रमुदञ्चमुपदधाति । हृदयं ग्रहं चत्वारि पदानि सम्भाराणां द्वे पत्नीनाम् २०

21 एवन् दक्षिणतः प्राञ्चञ् ...{Loading}...

एवं दक्षिणतः प्राञ्चं चतुर्होतारम् २१

22 पश्चादुदञ्चम् पञ्चहोतारम् ...{Loading}...

पश्चादुदञ्चं पञ्चहोतारम् २२

23 उत्तरतः प्राञ्चं षड्ढोतारम् ...{Loading}...

उत्तरतः प्राञ्चं षड्ढोतारम् २३

24 उपरिष्टात्प्राञ्चं सप्तहोतारम् ...{Loading}...

उपरिष्टात्प्राञ्चं सप्तहोतारम् २४

25 पञ्चात्र पदानि सम्भाराणामवशिष्टानि ...{Loading}...

पञ्चात्र पदानि सम्भाराणामवशिष्टानि च पत्नीनाम् २५

26 स्वयमातृणादि समानमुत्तरम् ...{Loading}...

स्वयमातृणादि समानमुत्तरम् २६

27 सन्तिष्ठते चातुर्होत्रः ...{Loading}...

सन्तिष्ठते चातुर्होत्रः २७

इति चतुर्दशी कण्डिका


  1. This has a reference to the nine lines drawn in the Sāvitra-ritual (See XIX.11.6). Only the outer most line is drawn. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB III. 11.1.1-21. ↩︎ ↩︎ ↩︎ ↩︎

  3. Thus with the Daśahotr̥-formula (TĀ III.1.a. ten bricks; with the “Heart” (Hr̥daya) (TĀ III. 11.1-2.a) upto ātmā janānām one brick; with the “scoop” (Graha) (TĀ III.1.a) one brick; with the “acceptance” (Pratigraha) (TĀ III. 10 upto pratigr̥hṇātu) one brick: with the: Sambhāras, (TĀ III.8 upto āśiṣā) four bricks; and with the patnis (TĀ III.9 upto br̥haspatiḥ) two bricks are to be placed ↩︎