१३

01 अग्निप्रणयनादि पाशुकङ् कर्म ...{Loading}...

अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः १

02 अतिमुक्तीर्हुत्वा चतुर्गृहीतञ् जुहोति ...{Loading}...

अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति २

03 त्वमग्ने रुद्र इति ...{Loading}...

त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अपरं चतुर्गृहीतम् ३

04 अग्नाविंष्णू इति वसोर्धारायाः ...{Loading}...

अग्नाविंष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतम् ४

05 अन्नपत इत्यन्नहोमः अपरञ् ...{Loading}...

अन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतम् ५

06 सप्त ते अग्ने ...{Loading}...

सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ६

07 अपरञ् चतुर्गृहीतं वसूनान् ...{Loading}...

अपरं चतुर्गृहीतं वसूनां त्वाधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति ७

08 तासां संस्रावेण यजमानो ...{Loading}...

तासां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन ८

09 अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे ...{Loading}...

अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम् ९

10 बर्हिषः सम्भरणादि पाशुकङ् ...{Loading}...

बर्हिषः सम्भरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमात् १०

11 हुतायां वपायामन्विष्टकम् पष्ठौहीर्दक्षिणा ...{Loading}...

हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति ११

12 यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः ...{Loading}...

यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाशयेत् १२

13 तेनो हैवास्य स ...{Loading}...

तेनो हैवास्य स काम उपाप्तो भवति १३

14 पष्ठौहीन् त्वन्तर्वतीन् दद्याद्धिरण्यं ...{Loading}...

पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च १४

15 यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण ...{Loading}...

यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति १५

16 विपश्चिते पवमानायेति ग्रहणसादनौ ...{Loading}...

विपश्चिते पवमानायेति ग्रहणसादनौ १६

17 नाचिकेत एव मृत्युग्रहः ...{Loading}...

नाचिकेत एव मृत्युग्रहः स्यादित्यपरम् १७

18 तस्य स्विष्टकृतमनु होमः ...{Loading}...

तस्य स्विष्टकृतमनु होमः १८

19 होष्यन्नप उपस्पृशेद्विद्युदसि विद्य ...{Loading}...

होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति १९

20 अथ जुहोत्यप मृत्युमप ...{Loading}...

अथ जुहोत्यप मृत्युमप क्षुधमिति २०

21 अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च ...{Loading}...

अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति २१

22 तस्येडामनु भक्षः ...{Loading}...

तस्येडामनु भक्षः २२

23 भक्षयति भक्षोऽस्यमृतभक्ष इति ...{Loading}...

भक्षयति भक्षोऽस्यमृतभक्ष इति २३

24 भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण ...{Loading}...

भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण २४

25 समानमत ऊर्ध्वम् पाशुकङ् ...{Loading}...

समानमत ऊर्ध्वं पाशुकं कर्म २५

26 सन्तिष्ठते सावित्रः ...{Loading}...

सन्तिष्ठते सावित्रः २६

इति त्रयोदशी कण्डिका


  1. Thus the work mentioned in VII.5.6-VII.1.2. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB III. 11.9.9. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎