01 अग्निप्रणयनादि पाशुकङ् कर्म …{Loading}…
अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः १
थिते
- (Then the Adhvaryu) starts the work of the animal sacrifice beginning with carrying forward of the fire (to the Uttaravedi)1; everything is the same upto the Atimukti ( libations).
अग्निप्रणयनादि पाशुकं कर्म प्रतिपद्यते समानमातिमुक्तिभ्यः १
02 अतिमुक्तीर्हुत्वा चतुर्गृहीतञ् जुहोति …{Loading}…
अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति २
थिते
- Having offered the Atimukti (-libations),1 he offers four-times scooped (ghee).
अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति २
03 त्वमग्ने रुद्र इति …{Loading}…
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अपरं चतुर्गृहीतम् ३
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् । अपरं चतुर्गृहीतम् ३
04 अग्नाविंष्णू इति वसोर्धारायाः …{Loading}…
अग्नाविंष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतम् ४
अग्नाविंष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतम् ४
05 अन्नपत इत्यन्नहोमः अपरञ् …{Loading}…
अन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतम् ५
अन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतम् ५
06 सप्त ते अग्ने …{Loading}…
सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ६
सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ६
07 अपरञ् चतुर्गृहीतं वसूनान् …{Loading}…
अपरं चतुर्गृहीतं वसूनां त्वाधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति ७
थिते
- (Having taken) another four-times-scooped (ghee) (he offers it) with vasūnāṁ tvādhitena….1
अपरं चतुर्गृहीतं वसूनां त्वाधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति ७
08 तासां संस्रावेण यजमानो …{Loading}…
तासां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन ८
तासां संस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन ८
09 अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे …{Loading}…
अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम् ९
थिते
- (The Adhvaryu) then offers twenty-one libations with the section beginning with vasave svāhā,1 each (libation) with one formula(in the sequence).
अथैकविंशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम् ९
10 बर्हिषः सम्भरणादि पाशुकङ् …{Loading}…
बर्हिषः सम्भरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमात् १०
थिते
- He starts the work of the animal-sacrifice beginning with bringing of sacred grass. The work is the same (as in the basic pradigm) upto the offering of the omentum.1
बर्हिषः सम्भरणादि पाशुकं कर्म प्रतिपद्यते समानमा वपाया होमात् १०
11 हुतायां वपायामन्विष्टकम् पष्ठौहीर्दक्षिणा …{Loading}…
हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति ११
हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति ११
12 यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः …{Loading}…
यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाशयेत् १२
थिते
- (If the sacrificer) is not able (to give) so many gifts he should cause the Brāhmaṇas drink so many stirred drinks or eat so many rice-paps.1
यद्येतावतीर्दक्षिणा नोत्सहेत मन्थानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाशयेत् १२
13 तेनो हैवास्य स …{Loading}…
तेनो हैवास्य स काम उपाप्तो भवति १३
थिते
- By means of it that desire of him (the sacrificer) is fulfilled.1
तेनो हैवास्य स काम उपाप्तो भवति १३
14 पष्ठौहीन् त्वन्तर्वतीन् दद्याद्धिरण्यं …{Loading}…
पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च १४
थिते
- But he should give a pregnant four-yeared cow, gold and cloth.1
पष्ठौहीं त्वन्तर्वतीं दद्याद्धिरण्यं वासश्च १४
15 यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण …{Loading}…
यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति १५
थिते
- Having done (all) that (is to be done) before Manotā,1 (the Adhvaryu) draws a scoop of gravy by means of a vessel of Udumbara-wood for Mr̥tyu.
यत्प्राङ् मनोतायास्तत्कृत्वौदुम्बर पात्रेण यूष्णो मृत्यवे ग्रहं गृह्णाति १५
16 विपश्चिते पवमानायेति ग्रहणसादनौ …{Loading}…
विपश्चिते पवमानायेति ग्रहणसादनौ १६
विपश्चिते पवमानायेति ग्रहणसादनौ १६
17 नाचिकेत एव मृत्युग्रहः …{Loading}…
नाचिकेत एव मृत्युग्रहः स्यादित्यपरम् १७
थिते
- Another (opinion is that) the scoop for Mrtyu should be only at the time of the Nāciketa (fire-altar-building).
नाचिकेत एव मृत्युग्रहः स्यादित्यपरम् १७
18 तस्य स्विष्टकृतमनु होमः …{Loading}…
तस्य स्विष्टकृतमनु होमः १८
थिते
- The offering of it is to be done after the Sviṣṭakr̥t (-libation).1
तस्य स्विष्टकृतमनु होमः १८
19 होष्यन्नप उपस्पृशेद्विद्युदसि विद्य …{Loading}…
होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति १९
थिते
- When about to offer it, he touches the water with vidyudasi….1
होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति १९
20 अथ जुहोत्यप मृत्युमप …{Loading}…
अथ जुहोत्यप मृत्युमप क्षुधमिति २०
थिते
- Then he offers it with apa mr̥tyum….1
अथ जुहोत्यप मृत्युमप क्षुधमिति २०
21 अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च …{Loading}…
अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति २१
थिते
- After he has offered it, he touches water with vr̥ṣṭir asi…1
अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति २१
22 तस्येडामनु भक्षः …{Loading}…
तस्येडामनु भक्षः २२
थिते
- The consuming (of this scoop should be done) after the Iḍā (-ritual).
तस्येडामनु भक्षः २२
23 भक्षयति भक्षोऽस्यमृतभक्ष इति …{Loading}…
भक्षयति भक्षोऽस्यमृतभक्ष इति २३
थिते
- He consumes it with bhakṣo’si….1
भक्षयति भक्षोऽस्यमृतभक्ष इति २३
24 भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण …{Loading}…
भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण २४
थिते
- After having consurned it he establishes “Calls of the vital airs (Prananihava-)" in his body with the remaining section beginning with mandrābhibhūtiḥ.1
भक्षयित्वा प्राणनिहवानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण २४
25 समानमत ऊर्ध्वम् पाशुकङ् …{Loading}…
समानमत ऊर्ध्वं पाशुकं कर्म २५
थिते
- The remaining animal-sacrificial work after this is the same (as in the basic paradigm).1
समानमत ऊर्ध्वं पाशुकं कर्म २५
26 सन्तिष्ठते सावित्रः …{Loading}…
सन्तिष्ठते सावित्रः २६
थिते
- (Thus here) the Sāvitra (-fire-altar-building-ritual) stands completly established (i.e.concluded).
सन्तिष्ठते सावित्रः २६
इति त्रयोदशी कण्डिका