१२

01 नवम्याम् बाह्यायां लेखायाम् ...{Loading}...

नवम्यां बाह्यायां लेखायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति सञ्ज्ञानं विज्ञानमिति १

02 तेषामन्तरालेष्वेतेषामह्नाम् पञ्चदश मूहूर्तानुपदधाति ...{Loading}...

तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मूहूर्तानुपदधाति चित्रः केतुरिति २

03 अथान्तरस्याम् पञ्चदश पुर्वपक्षस्य ...{Loading}...

अथान्तरस्यां पञ्चदश पुर्वपक्षस्य रात्रीरुपदधाति दर्शा दृष्टेति ३

04 तासामन्तरालेष्वेन्तासां रात्रीणाम् पञ्चदश ...{Loading}...

तासामन्तरालेष्वेन्तासां रात्रीणां पञ्चदश मुहूर्तानुपदधाति दाता प्रदातेति ४

05 अथान्तरस्याम् पञ्चदशापरपक्षस्याहान्युपदधाति प्रस्तुतं ...{Loading}...

अथान्तरस्यां पञ्चदशापरपक्षस्याहान्युपदधाति प्रस्तुतं विष्टुतमिति ५

06 तेषामन्तरालेष्वेतेषामह्नाम् पञ्चदश मुहूर्तानुपदधाति ...{Loading}...

तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मुहूर्तानुपदधाति सविता प्रसवितेति ६

07 अथान्तरस्याम् पञ्चदशापरपक्षस्य रात्रीरुपदधाति ...{Loading}...

अथान्तरस्यां पञ्चदशापरपक्षस्य रात्रीरुपदधाति सुता सुन्वतीति ७

08 तासामन्तरालेष्वेतासां रात्रीणाम् पञ्चदश ...{Loading}...

तासामन्तरालेष्वेतासां रात्रीणां पञ्चदश मुहूर्तानुपदधात्यभिशास्तानुमन्तेति ८

09 अथान्तरस्यान् द्वादश पूर्वपक्षानुपदधाति ...{Loading}...

अथान्तरस्यां द्वादश पूर्वपक्षानुपदधाति पवित्रं पवयिष्यन्निति ९

10 अथान्तरस्यान् द्वादशापरपक्षानुपदधाति सहस्वान्सहीयानिति ...{Loading}...

अथान्तरस्यां द्वादशापरपक्षानुपदधाति सहस्वान्सहीयानिति १०

11 अथान्तरस्यान् त्रयोदश मासनामान्युपदधात्यरुणोऽरुणरजा ...{Loading}...

अथान्तरस्यां त्रयोदश मासनामान्युपदधात्यरुणोऽरुणरजा इति ११

12 अथ सिकता उपदधात्येजत्का ...{Loading}...

अथ सिकता उपदधात्येजत्का जोवत्का इति १२

13 अथान्तरस्याम् पञ्चदश मुहूर्तानुपदधातीदानीन् ...{Loading}...

अथान्तरस्यां पञ्चदश मुहूर्तानुपदधातीदानीं तदानीमिति १३

14 अथान्तरस्यां षड्यज्ञक्रतूंस्त्रीणि चतुर्नामान्युपदधात्यग्निष्टोम ...{Loading}...

अथान्तरस्यां षड्यज्ञक्रतूंस्त्रीणि चतुर्नामान्युपदधात्यग्निष्टोम उक्थ्यो ऽग्निरृतुरिति १४

15 अथ नाभ्याञ् चत्वारि ...{Loading}...

अथ नाभ्यां चत्वारि संवत्सरनामान्युपदधाति प्रजापतिः संवत्सरो महान्क इति १५

16 चतस्रः स्वयमातृणा दिक्षूपदधाति ...{Loading}...

चतस्रः स्वयमातृणा दिक्षूपदधाति भूरग्निं च पृथिवीं च मां चेति १६

17 लोकम् पृणेति लोकम्पृणा ...{Loading}...

लोकं पृणेति लोकम्पृणा उपदधाति १७

18 चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति ...{Loading}...

चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानर्यर्चा चितावनुव्यूहति १८

19 सा चितिर्भवति ...{Loading}...

सा चितिर्भवति १९

20 आरोहणञ् जपति अवरोहणञ् ...{Loading}...

आरोहणं जपति अवरोहणं जपति २०

21 उपस्थानेनोपतिष्ठते त्वमेव त्वां ...{Loading}...

उपस्थानेनोपतिष्ठते त्वमेव त्वां वेत्थ योऽसि सोऽसीति २१

22 साहस्रवत्करोति ...{Loading}...

साहस्रवत्करोति २२

23 धेनूः कृत्वा यजमानः ...{Loading}...

धेनूः कृत्वा यजमानः संहारविहाराभ्यामुपतिष्ठते संवत्सरोऽसि परिवत्सरोऽसीति २३

24 उत्तरत उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरञ् जुहोति ...{Loading}...

उत्तरत उत्तमायामिष्टकायामर्कपर्णेनाजाक्षीरं जुहोति २४

25 त्वमग्ने रुद्र इति ...{Loading}...

त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपमसञ्चरे पशूनामर्कपर्ण उदस्यति वल्मीकवपायां वावदधाति २५

26 जघनेनाग्निम् प्राङ्मुख उपविश्य ...{Loading}...

जघनेनाग्निं प्राङ्मुख उपविश्य सञ्चितोक्थ्येन होतानुशंसति भूर्भुवः स्वरित्यनुवाकेन २६

इति द्वादशी कण्डिका


  1. A Muhurta consists of forty-eight minutes. Thus a day has 15 Muhurtas and a night also has the same number of Muhurtas. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS V.5.9.g. See XVI.21.14. ↩︎ ↩︎ ↩︎ ↩︎