११

01 सावित्रं स्वर्गकामश्चिन्वीत ...{Loading}...

सावित्रं स्वर्गकामश्चिन्वीत १

02 पशुबन्धे चीयते ...{Loading}...

पशुबन्धे चीयते २

03 चेष्यमाण उपकल्पयते पञ्चाशीतिशतं ...{Loading}...

चेष्यमाण उपकल्पयते पञ्चाशीतिशतं हिरण्येष्टका यावदुत्तममङ्गुलिपरु तावतीः शर्करा वाभ्यक्ताश्चतस्रः स्वयमातृणा अपरिमिता लोकम्पृणाः ३

04 षड्ढोतारमित्येतदादि पाशुकङ् कर्म ...{Loading}...

षड्ढोतारमित्येतदादि पाशुकं कर्म प्रतिपद्यते ४

05 वेदितृतीये यजत इति ...{Loading}...

वेदितृतीये यजत इति विज्ञायते ५

06 प्रागुत्तरात्परिग्राहात्कृत्वोत्तरवेदिदेशस्य मध्ये शङ्कुन् ...{Loading}...

प्रागुत्तरात्परिग्राहात्कृत्वोत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्य सर्वतः परिमण्डलं रथचक्रमात्रं सावित्रं परिलिख्य समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा सजूरब्दोऽयावभिरिति दर्भस्तम्बे पञ्चाहुतीर्हुत्वोद्धत्यावोक्ष्य व्याघारणान्तामुतरवेदिं कृत्वा लेखाया अभ्यन्तरं नव परिमण्डला लेखालिखित्वा सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिरिति बाह्यां लेखां सम्पूर्य वसति ६

07 हुते प्रातरग्निहोत्रे प्रजापतिस्त्वा ...{Loading}...

हुते प्रातरग्निहोत्रे प्रजापतिस्त्वा सादयतु तया देवतयाङ्गिरस्वद्ध्रुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णाम्यग्रे अग्निं यो नो अग्निः पितर इति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयंचित्याभिमृश्याग्नेर्भस्मासीति सिकता निवपति । सञ्ज्ञानमित्यूषान् ७

08 तान्निवपन्यददश्चन्द्रमसि कृष्णन् तदिहास्त्विति ...{Loading}...

तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ८

09 सं या वः ...{Loading}...

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्यूषान्सिकताश्च संसृज्य चित स्थ परिचित इत्यपरिमिताभिः शर्कराभिः परिश्रित्या प्यायस्व समेतु त इति सिकता व्यूहति ९

10 न लेखाः संलोभयन्ति ...{Loading}...

न लेखाः संलोभयन्ति १०

11 अभ्यन्तरञ् जघनार्ध उदपात्रमुपदधाति ...{Loading}...

अभ्यन्तरं जघनार्ध उदपात्रमुपदधाति वाक्त्वा समुद्र उपदधे सुप्रजाविनं रायस्पोषवनिं मह्यं वाजिनायेति ११

इत्येकादशी कण्डिका


  1. As was done by Ahīnas Āśvatthya. He built the altar of the shape of golden eagle in order to go the heaven (See TB III. 10.9.10-11). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XIX.1.14. ↩︎ ↩︎ ↩︎

  3. Cp. XVI.17.7. ↩︎

  4. See VII.3.14-5.6. ↩︎