१०

01 कोऽसि कतमोऽसीति पाणी …{Loading}…

कोऽसि कतमोऽसीति पाणी सम्मृश्याध्वर्युर्व्याहृतीर्जुहोति १

02 अत्र राजसूयवन्मङ्गल्यनाम्न आहूय …{Loading}…

अत्र राजसूयवन्मङ्गल्यनाम्न आहूय शिरो मे श्रीरिति यथालिङ्गमङ्गानि सम्मृश्य जङ्घाभ्यां पद्भ्यामिति प्रत्यवरुह्य प्रति क्षत्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा त्रया देवा इत्याहुतीर्हुत्वा लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि सम्मृशते २

03 स्विष्टकृत्प्रभृति समानमावभृथात् …{Loading}…

स्विष्टकृत्प्रभृति समानमावभृथात् ३

04 यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोतीत्याश्मरथ्यः …{Loading}…

यद्देवा देवहेडनमित्यवभृथे पञ्चाहुतीर्जुहोतीत्याश्मरथ्यः । आहवनीये हूयेरन्नित्यालेखनः ४

05 अवभृथ निचङ्कणेत्यवभृथं यजमानोऽभिमन्त्र्य …{Loading}…

अवभृथ निचङ्कणेत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्योद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति ५

06 पशुवत्समिध उपस्थानञ् च …{Loading}…

पशुवत्समिध उपस्थानं च ६

07 समाववर्त्तीत्युपस्थाय भूः स्वाहेत्याहुतिं …{Loading}…

समाववर्त्तीत्युपस्थाय भूः स्वाहेत्याहुतिं हुत्वा पूर्ववत्पितृयज्ञः ७

08 इन्द्राय वयोधसे पशुमालभते …{Loading}…

इन्द्राय वयोधसे पशुमालभते ८

09 ऋषभो दक्षिणा …{Loading}…

ऋषभो दक्षिणा ९

10 आदित्यञ् चरुम् …{Loading}…

आदित्यं चरुम् १०

11 धेनुः …{Loading}…

धेनुः ११

12 विज्ञायते च वत्सम् …{Loading}…

विज्ञायते च । वत्सं पूर्वस्यां ददाति । मातरमुत्तरस्याम् १२

13 सन्तिष्ठते कौकिली …{Loading}…

सन्तिष्ठते कौकिली १३

14 तया स्वर्गकामो यजेत …{Loading}…

तया स्वर्गकामो यजेत १४

इति दशमी कण्डिका


  1. TB II.6.5.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB XII.8.3.18. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. viz. bhuḥ, bhuvaḥ, svaḥ ↩︎ ↩︎ ↩︎ ↩︎

  4. TB II.6.5.6 ↩︎ ↩︎

  5. TB II.6.5.6. ↩︎

  6. Contrast ŚB XII.8.3.29-30. ↩︎

  7. TB II.6.5.7-8. ↩︎

  8. TB II.6.5.8. ↩︎