०९

01 अथाहुती जुहुतः ये …{Loading}…

अथाहुती जुहुतः । ये समाना इत्यध्वर्युः । ये सजाता इति प्रतिप्रस्थाता १

02 मनोताकाले पृथक् पात्रेषु …{Loading}…

मनोताकाले पृथक् पात्रेषु पशूनां यूषाणि निदधाति २

03 पुरस्तात्स्विष्टकृतः शृङ्गशफैरुपहोमाञ्जुहोति …{Loading}…

पुरस्तात्स्विष्टकृतः शृङ्गशफैरुपहोमाञ्जुहोति ३

04 अष्टावष्टावेकैकस्य कुष्टिकाशफाः …{Loading}…

अष्टावष्टावेकैकस्य कुष्टिकाशफाः ४

05 आश्विनस्य यूषेण कुष्ठिकां …{Loading}…

आश्विनस्य यूषेण कुष्ठिकां शफं च पूरयित्वा सीसेन तन्त्रमित्यष्टर्चेन प्रतिमन्त्रं द्वाभ्यान्द्वाभ्यां कुष्ठिकाशफाभ्यां जुहोति ५

06 उत्तमायां शृङ्गे अनुषजति …{Loading}…

उत्तमायां शृङ्गे अनुषजति ६

07 हुत्वाहुत्वा स्वेष्वभिषेचनपात्रेषु सम्पातानवनीयाहवनीये …{Loading}…

हुत्वाहुत्वा स्वेष्वभिषेचनपात्रेषु सम्पातानवनीयाहवनीये कुष्ठिकाशफान्प्रविध्यति ७

08 एवमुत्तरेणाष्टर्चेन सारस्वतस्य …{Loading}…

एवमुत्तरेणाष्टर्चेन सारस्वतस्य ८

09 सर्वेणानुवाकेनैन्द्रस्य …{Loading}…

सर्वेणानुवाकेनैन्द्रस्य ९

10 औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना …{Loading}…

औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना १०

11 मित्रोऽसि वरुणोऽसीति तां …{Loading}…

मित्रोऽसि वरुणोऽसीति तां यजमानायतने प्रतिष्ठापयति ११

12 आसादनोपवेशनाभिमन्त्रणानि राजसूयवत् …{Loading}…

आसादनोपवेशनाभिमन्त्रणानि राजसूयवत् १२

13 तस्याम् प्राङ्मुखमासीनम् प्रत्यङ्मुखस्तिष्ठन्नाश्विनसम्पातैरभिषिञ्चति …{Loading}…

तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नाश्विनसम्पातैरभिषिञ्चति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामीति १३

14 एवमुत्तरेण मन्त्रेण सारस्वतस्य …{Loading}…

एवमुत्तरेण मन्त्रेण सारस्वतस्य १४

15 उत्तमेनैन्द्रस्य …{Loading}…

उत्तमेनैन्द्रस्य १५

इति नवमी कण्डिका


  1. TB II.6.3.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TB II.6.3.5. According to ŚB XII.8.1.19-20, it is the sacrificer who offers these libations. ↩︎ ↩︎ ↩︎