०८

01 पूर्ववत्पशूनुपाकरोति ...{Loading}...

पूर्ववत्पशूनुपाकरोति १

02 बार्हस्पत्यवर्जं समानमा पर्यग्निकरणात् ...{Loading}...

बार्हस्पत्यवर्जं समानमा पर्यग्निकरणात् २

03 मध्यमे पर्यग्निकरणपर्याय उल्मुकैकदेशङ् ...{Loading}...

मध्यमे पर्यग्निकरणपर्याय उल्मुकैकदेशं खरे न्युप्योपसमादधाति ३

04 शेषेण पर्यग्नि कृत्वैतदेव ...{Loading}...

शेषेण पर्यग्नि कृत्वैतदेव पशुश्रपणार्थं प्रणयति ४

05 हुतासु वपासु चत्वारिंशद्गा ...{Loading}...

हुतासु वपासु चत्वारिंशद्गा दक्षिणा ददाति । अनुशिशुं च वडबाम् ५

06 अत्र वा ग्रहान्गृह्णीयुः ...{Loading}...

अत्र वा ग्रहान्गृह्णीयुः ६

07 उक्तः सम्प्रैषः ...{Loading}...

उक्तः सम्प्रैषः ७

08 सर्व आहवनीये हूयेरन्नित्याश्मरथ्यः ...{Loading}...

सर्व आहवनीये हूयेरन्नित्याश्मरथ्यः । दक्षिणेऽग्नौ सुराग्रहा इत्यालेखनः ८

09 सुरावन्तमिति पयोग्रहाञ्जुहोति यस्ते ...{Loading}...

सुरावन्तमिति पयोग्रहाञ्जुहोति । यस्ते रसः सम्भृत इति सुराग्रहान् ९

10 तूष्णीमनुवषट्कृते हुत्वा यमश्विना ...{Loading}...

तूष्णीमनुवषट्कृते हुत्वा यमश्विना नमुचेरित्याश्विनमध्वर्युर्भक्षयति १०

11 यदत्र रिप्तमिति सारस्वतम् ...{Loading}...

यदत्र रिप्तमिति सारस्वतं प्रतिप्रस्थाताग्नीध्रश्च ११

12 इदं हविरित्यैन्द्रम् ब्रह्मा ...{Loading}...

इदं हविरित्यैन्द्रं ब्रह्मा यजमानश्च १२

13 व्याख्याता सुरायाः प्रतिपत्तिः ...{Loading}...

व्याख्याता सुरायाः प्रतिपत्तिः १३

14 दक्षिणेनाहवनीयम् पयःशेषम् पितृपितामहप्रपितामहे ...{Loading}...

दक्षिणेनाहवनीयं पयःशेषं पितृपितामहप्रपितामहे भ्यो ददाति पितृभ्यः स्वधाविभ्यः स्वधा नम इति १४

15 पुनन्तु मा पितरः ...{Loading}...

पुनन्तु मा पितरः सोम्यास इत्युपतिष्ठते १५

इत्यष्टमी कण्डिका


  1. See XIX.2.1. This Sūtra is completed in the next Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See VII.12.5-8. ↩︎ ↩︎ ↩︎