०७

01 उपयामगृहीतोऽस्यश्विभ्यान् त्वा जुष्टङ् ...{Loading}...

उपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिस्तेजसे त्वेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वीर्याय त्वेति सादयित्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वोपवाकासक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वोत्तरैर्यथालिङ्गमुपतिष्ठते १

02 सुरायां वाल आनीयमानायान् ...{Loading}...

सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान्गृह्णाति २

03 नाना हि वान् ...{Loading}...

नाना हि वां देवहितं सदः कृतमिति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या ३

04 उपयामगृहीतोऽस्याश्विनन् तेजोऽश्विभ्यान् त्वा ...{Loading}...

उपयामगृहीतोऽस्याश्विनं तेजोऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयति ४

05 उपयामगृहीतोऽसि सारस्वतं वीर्यं ...{Loading}...

उपयामगृहीतोऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयति ५

06 उपयामगृहीतोऽस्यैन्द्रम् बलमिन्द्राय त्वा ...{Loading}...

उपयामगृहीतोऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्महसे त्वेति सादयति ६

07 सुरावच्छ्रयणानि ...{Loading}...

सुरावच्छ्रयणानि ७

08 सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते उत्तरेण चानुवाकेन ...{Loading}...

सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते । उत्तरेण चानुवाकेन ८

इति सप्तमी कण्डिका


  1. For all these formulae See TB II.6.1.3-4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. In Garbe’s edition the word Pavitrena is used. In the footnote the variant reading Pātreṇa is given and that appears to be acceptable. See also Caland’s note on the translation of this Sūtra. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cp. XIX.1.15. One may thus optionally deposit it on the head of a Brāhmin. ↩︎

  4. TB II.6.1.5. ↩︎