०६

01 अवटस्थाने कारोतरमेके समामनन्ति …{Loading}…

अवटस्थाने कारोतरमेके समामनन्ति १

02 बैदलश्चर्मनद्धो भवति …{Loading}…

बैदलश्चर्मनद्धो भवति २

03 तस्मिन्बैदलं शुण्डामुखमवदधाति …{Loading}…

तस्मिन्बैदलं शुण्डामुखमवदधाति ३

04 तस्य बिलञ् चर्मणा …{Loading}…

तस्य बिलं चर्मणा परिणद्धं भवति ४

05 तस्मिन्यदास्रवति सा परिस्रुद्भवति …{Loading}…

तस्मिन्यदास्रवति सा परिस्रुद्भवति ५

06 पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय …{Loading}…

पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति ६

07 त्रयान्सक्तून्यवगोधूमानामुपवाकासक्तूंश्च श्येनपत्त्रे वाले …{Loading}…

त्रयान्सक्तून्यवगोधूमानामुपवाकासक्तूंश्च श्येनपत्त्रे वाले द्रोणे वा ७

08 अजाविलोम्नामध्वर्योः पवित्रम् भवति …{Loading}…

अजाविलोम्नामध्वर्योः पवित्रं भवति । गोअश्वानां प्रतिप्रस्थातुः ८

09 आज्यन् निरुप्याध्वर्युद्रोणे प्रभूतम् …{Loading}…

आज्यं निरुप्याध्वर्युद्रोणे प्रभूतं पयो निर्वपति ९

10 मन्त्रवदित्याश्मरथ्यः तूष्णीमित्यालेखनः …{Loading}…

मन्त्रवदित्याश्मरथ्यः । तूष्णीमित्यालेखनः १०

11 आज्यमुत्पूय वालेन पय …{Loading}…

आज्यमुत्पूय वालेन पय उत्पुनाति ११

12 प्राङ् सोमो अतिद्रुत …{Loading}…

प्राङ् सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य १२

13 ब्रह्म क्षत्रम् पवत …{Loading}…

ब्रह्म क्षत्रं पवत इति सुरां प्रतिप्रस्थाता १३

14 पाशुकान्याज्यानि गृहीत्वाध्वर्युः पयोग्रहान्गृह्णाति …{Loading}…

पाशुकान्याज्यानि गृहीत्वाध्वर्युः पयोग्रहान्गृह्णाति १४

15 कुविदङ्गेति सर्वेषामेका पुरोरुगेका …{Loading}…

कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या १५

इति षष्ठी कण्डिका


  1. Karotara. Cf. SB XII.9.1.2; KātyāŚS XIX.2.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. ŚB XII.7.3.8ff. ↩︎ ↩︎ ↩︎ ↩︎