०५

01 अथातः कौकिलीं व्याख्यास्यामः ...{Loading}...

अथातः कौकिलीं व्याख्यास्यामः १

02 तस्याः पूर्ववत्कल्पः ...{Loading}...

तस्याः पूर्ववत्कल्पः २

03 निर्वपणकाल ऐन्द्रम् पशुमालभते ...{Loading}...

निर्वपणकाल ऐन्द्रं पशुमालभते ३

04 ऋषभो दक्षिणा ...{Loading}...

ऋषभो दक्षिणा ४

05 आदित्यञ् चरुम् ...{Loading}...

आदित्यं चरुम् ५

06 वत्सः ...{Loading}...

वत्सः ६

07 पुरस्तादेव कालायसेन कालानुशातनेन ...{Loading}...

पुरस्तादेव कालायसेन कालानुशातनेन कालेन तसरेण पक्ष्मणा व्रीहियवश्यामाकान्क्रीत्वा क्षौमे वासस्युपनद्धान्व्रीहींस्तोक्मानि कुर्वन्ति । यवानीषदुपतप्तान् ७

08 चूर्णानि तानि दध्नोदश्विता ...{Loading}...

चूर्णानि तानि दध्नोदश्विता वा संसृज्य दर्भैः परितंस्य निदधाति ८

09 स मासरः ...{Loading}...

स मासरः ९

10 तेषामेव स्थूलचूर्णानि संस्रावेणाभिषिक्तानि ...{Loading}...

तेषामेव स्थूलचूर्णानि संस्रावेणाभिषिक्तानि स नग्नहुः १०

11 श्यामाकान्सक्तून्कृत्वा सुरायाः सन्धानकाले ...{Loading}...

श्यामाकान्सक्तून्कृत्वा सुरायाः सन्धानकाले तोक्मैर्मासरेण नग्नहुना च सुरां संसृज्य सक्तूनां तृतीयेन परिकीर्य परीतो षिञ्चता सुतमित्येकस्या गोर्दुग्धेन परिषिच्यापरेण तृतीयेन परिकीर्यैतयैव द्वयोर्दुग्धेनापरेण तृतीयेन परिकीर्यैतयैव तिसृणां दुग्धेन तिस्रो रात्रीः संसृष्टा वसति ११

इति पञ्चमी कण्डिका


  1. The Black Yajurveda has only the formulae of this Iṣṭi. It does not describe it. The ŚB XII. 7.1.1-9.3.16 describes it. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. XIX.1.8. ↩︎ ↩︎

  3. VS XIX.2. ↩︎

  4. Cp. ŚB XII.8.2.11-12. ↩︎