०४

01 अथ यदि राजन्यो ...{Loading}...

अथ यदि राजन्यो वैश्यो वा नाद्रियेत दक्षिणमग्निं प्रणियितुम् १

02 स्वयमेतं सुराशेषं व्रतयन्नासीत ...{Loading}...

स्वयमेतं सुराशेषं व्रतयन्नासीत २

03 बार्हस्पत्यस्य पशुपुरोडाशेन प्रचर्य ...{Loading}...

बार्हस्पत्यस्य पशुपुरोडाशेन प्रचर्य पशुभिः प्रचर्य पुरोडाशैः प्रचरति ३

04 समानन् तु स्विष्टकृदिडम् ...{Loading}...

समानं तु स्विष्टकृदिडम् ४

05 अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकङ् कर्म ...{Loading}...

अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते ५

06 हृदयशूलैर्मासरेण पात्रैश्चावभृथमवयन्ति ...{Loading}...

हृदयशूलैर्मासरेण पात्रैश्चावभृथमवयन्ति ६

07 मासरमृजीषकल्पेन प्रतिपादयति ...{Loading}...

मासरमृजीषकल्पेन प्रतिपादयति ७

08 बल्कसम् मासर इत्याचक्षते ...{Loading}...

बल्कसं मासर इत्याचक्षते ८

09 यस्ते देव वरुण ...{Loading}...

यस्ते देव वरुण गायत्रच्छन्दाः पाशस्तं त एतेनावयजे स्वाहेत्याश्विनपात्रमवभृथे प्रविध्यति । एतेनैव त्रिष्टुप्छन्दा इति सारस्वतस्य । जगतीछन्दा इत्यैन्द्रस्य । अनुष्टुप्छन्दा इति सतं वालस्रावं श्येनपत्त्रं च । पङ्क्तिच्छन्दा इति शूलान् ९

10 तूष्णीम् प्रत्यायनम् ...{Loading}...

तूष्णीं प्रत्यायनम् १०

11 तया सोमवामिनं सोमातिपवितं ...{Loading}...

तया सोमवामिनं सोमातिपवितं राजानमपरुध्यमानमपरुद्धमभिषिच्यमानमभिषिषिचानं वा याजयेत् ११

12 अभिचर्यमाणो यजेत अभिचरन्नन्नाद्यकामः ...{Loading}...

अभिचर्यमाणो यजेत । अभिचरन्नन्नाद्यकामः ह्प्रजाकामः पशुकामो वा १२

13 सर्वेष्वभिषेकेष्वाम्नाता ...{Loading}...

सर्वेष्वभिषेकेष्वाम्नाता १३

14 तया ब्राह्मणो राजन्यो ...{Loading}...

तया ब्राह्मणो राजन्यो वैश्यो वा तेजस्कामो यजेत १४

इति चतुर्थी कण्डिका


  1. See XIX.3.6. If this fire is not brought forward, then the ritual of the Pot with hundred holes does not take place. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For the animals see XIX.2.1-2; the omenta of these animals have been, so far, offered. See XIX.2.3. See also TB 1.8.6.3. ↩︎