०३

01 सोमस्याग्ने वीहीत्यनुयजति ...{Loading}...

सोमस्याग्ने वीहीत्यनुयजति १

02 अहाव्यग्ने हविरास्ये ते ...{Loading}...

अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चमू इव सोमः । वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् । यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नय इति हुतां हूयमानां वा यजमानोऽनुमन्त्रयते २

03 ब्राह्मणम् परिक्रीणीयादुच्छेषनस्य पातारम् ...{Loading}...

ब्राह्मणं परिक्रीणीयादुच्छेषनस्य पातारम् ३

04 नाना हि वान् ...{Loading}...

नाना हि वां देवहितं सदो मितं मा संसृक्षाथां परमे व्योमन् । सुरा त्वमसि शुष्मिणी सोम एष मा मा हिंसीः स्वां योनिमाविशन् । यदत्र शिष्टं रसिनः सुतस्य यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन सोमं राजानमिह भक्षयामीति वा स्वयं पिबेत् ४

05 द्वे स्रुती अशृणवम् ...{Loading}...

द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वं भुवनं समेत्यन्तरा पूर्वमपरं च केतुमिति वा वल्मीकवपायामवनयेत् ५

06 दक्षिणेऽग्नौ शतातृणां स्थालीम् ...{Loading}...

दक्षिणेऽग्नौ शतातृणां स्थालीं प्रबद्धां धारयति ६

07 तस्या बिल उदीचीनदशम् ...{Loading}...

तस्या बिल उदीचीनदशं पवित्रं वितत्य यन्मे मनः परागतमिति तस्मिञ्छतमानं हिरण्यं निधाय सोमप्रतीकाः पितरस्तृप्णुतेति तस्मिन्सुराशेषमानयति । सोमप्रतीकाः पितरो मदन्तां व्यशेम देवहितं यदायुः । इन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुरिति वा ७

08 स्रवन्तीं सौमीभिः पितृमतीभिस्तिसृभिस्तिसृभिरुत्तरोत्तराभिरुपतिष्ठन्ते ...{Loading}...

स्रवन्तीं सौमीभिः पितृमतीभिस्तिसृभिस्तिसृभिरुत्तरोत्तराभिरुपतिष्ठन्ते ८

09 त्वं सोम प्रचिकित ...{Loading}...

त्वं सोम प्रचिकित इत्येता आम्नाता भवन्ति ९

10 पुरस्तादध्वर्युः दक्षिणतो ब्रह्मा ...{Loading}...

पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा । पश्चाद्धोता १०

11 यदग्ने कव्यवाहनेति काव्यवाहनीभिर्दक्षिणेऽग्नौ ...{Loading}...

यदग्ने कव्यवाहनेति काव्यवाहनीभिर्दक्षिणेऽग्नौ शतातृणां प्रतिष्ठापयति यदि ब्राह्मणो यजते ११

इति तृतीया कण्डिका


  1. Cf. ŚB V.5.4.26. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. For these verses see TB I.4.2.2. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS VI.6.7.2; cf. KS. XXIX.9. ↩︎

  4. Cf. TB I.8.6.4-5. ↩︎

  5. TS I.8.21.g. ↩︎

  6. KS XXIX.9. ↩︎