०२

01 आश्विनन् धूम्रमजं सारस्वतम् ...{Loading}...

आश्विनं धूम्रमजं सारस्वतं मेषमैन्द्रमृषभं वृष्णिं वा बार्हस्पत्यम् १

02 चतुर्थं सोमवामिनः सोमातिपवितस्य ...{Loading}...

चतुर्थं सोमवामिनः सोमातिपवितस्य वा २

03 हुतासु वपासु निष्कमृषभं ...{Loading}...

हुतासु वपासु निष्कमृषभं सात्वरीं च वडबां ददाति ३

04 नष्टप्रत्यासृताम् ब्रुवते ...{Loading}...

नष्टप्रत्यासृतां ब्रुवते ४

05 अनुशिशुर्वडबा दक्षिणा ...{Loading}...

अनुशिशुर्वडबा दक्षिणा ५

06 हरितरजतौ च शतमानावित्येके ...{Loading}...

हरितरजतौ च शतमानावित्येके ६

07 चात्वाले मार्जयित्वापरस्मिन्खरे सुराग्रहान्गृह्णन्ति ...{Loading}...

चात्वाले मार्जयित्वापरस्मिन्खरे सुराग्रहान्गृह्णन्ति ७

08 कुविदङ्गेति सर्वेषामेका पुरोरुगेका ...{Loading}...

कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोऽनुवाक्यैकः प्रैष एका याज्या ८

09 उपयामगृहीतोऽस्यच्छिद्रन् त्वाच्छिद्रेणाश्विभ्याञ् जुष्टङ् ...{Loading}...

उपयामगृहीतोऽस्यच्छिद्रं त्वाच्छिद्रेणाश्विभ्यां जुष्टं गृह्णामीत्याश्विनमध्वर्युर्गृह्णाति । एतेनैव सरस्वत्या इति सारस्वतं प्रतिप्रस्थाताग्नीध्रो वा । इन्द्राय त्वेत्यैन्द्रं ब्रह्मा यजमानो वा ९

10 क्वलसक्तुभिः सिंहलोमभिश्चाश्विनं श्रीणाति ...{Loading}...

क्वलसक्तुभिः सिंहलोमभिश्चाश्विनं श्रीणाति । बदरसक्तुभिः शार्दूललोमभिश्च सारस्वतम् । कर्कन्धुसक्तुभिर्वृकलोमभिश्चैन्द्रम् १०

11 तदभावे सिंहावध्वर्युर्मनसा ध्यायेत् ...{Loading}...

तदभावे सिंहावध्वर्युर्मनसा ध्यायेत् । शार्दूलौ उप्रतिप्रस्थाता । वृकौ यजमानः ११

12 सर्वाञ्छ्येनपत्त्रेण परिमृज्यैष ते ...{Loading}...

सर्वाञ्छ्येनपत्त्रेण परिमृज्यैष ते योनिरिति यथादेवतं यथायतनं सादयति १२

13 पयोग्रहा वा स्युः ...{Loading}...

पयोग्रहा वा स्युः १३

14 पाशुकानि वाज्यानि गृहीत्वा ...{Loading}...

पाशुकानि वाज्यानि गृहीत्वा ग्रहान्गृह्णीयुः १४

15 ततः पुरोडाशान्निर्वपति बार्हस्पत्यस्य ...{Loading}...

ततः पुरोडाशान्निर्वपति । बार्हस्पत्यस्य पशुपुरोडाशं निरुप्यैन्द्रमेकादशकपालमिति १५

16 त्रींस्तानासाद्य ग्रहैः प्रचरन्ति ...{Loading}...

त्रींस्तानासाद्य ग्रहैः प्रचरन्ति १६

17 ये गृह्णन्त्यध्वर्युः सम्प्रेष्यति ...{Loading}...

ये गृह्णन्त्यध्वर्युः सम्प्रेष्यति १७

18 अश्विभ्यां सरस्वत्या इन्द्राय ...{Loading}...

अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे सोमानां सुराम्णामनुब्रूहि । अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे सोमानां सुराम्णां प्रेष्येति सम्प्रैषौ । सोमान्सुराम्णः प्रस्थितान्प्रेष्येति वा १८

19 युवं सुराममश्विना नमुचावासुरे ...{Loading}...

युवं सुराममश्विना नमुचावासुरे सचा । विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् । पुत्रमिव पितरावश्विनोभेन्द्रावतं कर्मणा दंसनाभिः । यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभीष्णादिति सर्वदेवत्ये याज्यानुवाक्ये भवतः १९

इति द्वितीया कण्डिका


  1. TS 1.8.21.6; TB 1.8.5.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. KS XII.12. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. MS II.3.9; TB II.3.9; ŚB V.5.4.23ff. ↩︎