०१

01 त्र्यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि ...{Loading}...

त्र्यहे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निधाय सौत्रामण्यास्तन्त्रं प्रक्रमयति १

02 तस्या निरूढपशुबन्धवत्कल्पः ...{Loading}...

तस्या निरूढपशुबन्धवत्कल्पः २

03 अग्नीनन्वाधाय वेदङ् कृत्वाग्नीन्परिस्तीर्य ...{Loading}...

अग्नीनन्वाधाय वेदं कृत्वाग्नीन्परिस्तीर्य पाणिप्रक्षालनादि कर्म प्रतिपद्यते ३

04 यथार्थम् पात्राणि प्रयुनक्ति ...{Loading}...

यथार्थं पात्राणि प्रयुनक्ति । स्थालीं कपालानां स्थाने ४

05 निर्वपणकालेऽश्विभ्यां सरस्वत्या इन्द्राय ...{Loading}...

निर्वपणकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति ५

06 व्याख्यातश्चरुकल्पः ...{Loading}...

व्याख्यातश्चरुकल्पः ६

07 श्रपयित्वाग्रेण गार्हपत्यमवटङ् खात्वा ...{Loading}...

श्रपयित्वाग्रेण गार्हपत्यमवटं खात्वा तस्मिन्सुरायाः कल्पेन सुरां सन्दधाति ७

08 परिस्रुद्भवति ...{Loading}...

परिस्रुद्भवति ८

09 स्वाद्वीन् त्वा स्वादुनेति ...{Loading}...

स्वाद्वीं त्वा स्वादुनेति शष्पैः सुरां संसृजति ९

10 तिस्रो रात्रीः संसृष्टा ...{Loading}...

तिस्रो रात्रीः संसृष्टा वसति १०

11 एकयूपञ् छिनत्ति ...{Loading}...

एकयूपं छिनत्ति ११

12 न वेदङ् करोति ...{Loading}...

न वेदं करोति १२

13 पुरस्तात्कृतेनार्थान्कुरुते ...{Loading}...

पुरस्तात्कृतेनार्थान्कुरुते १३

14 सौमिक्या वेदितृतीये यजत ...{Loading}...

सौमिक्या वेदितृतीये यजत इति विज्ञायते १४

15 उत्तरवेद्याङ् क्रियमाणायाम् प्रतिप्रस्थाता ...{Loading}...

उत्तरवेद्यां क्रियमाणायां प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं खरं कृत्वाग्रेणान्वाहार्यपचनं सुराग्रहार्थं द्वितीयं खरं करोति १५

16 अग्नौ प्रणीयमाने प्रतिप्रस्थाता ...{Loading}...

अग्नौ प्रणीयमाने प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिं खरे न्युप्योपसमादधाति १६

17 पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय ...{Loading}...

पात्रसंसादनकालेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति । सतं वालस्रावं श्येनपत्त्रं श्रपणानि च १७

18 प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुराम् ...{Loading}...

प्राक् पशूपाकरणात्कृत्वोद्भिद्य सुरां ब्राह्मणस्य मूर्धन्खरे वा सादयित्वा पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण सुरां पावयति १८

19 प्राङ् सोमो अतिद्रुत ...{Loading}...

प्राङ् सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ् सोमो अतिद्रुत इति सोमातिपवितस्य १९

20 पूतां यथायतनं सादयित्वैकयूपे ...{Loading}...

पूतां यथायतनं सादयित्वैकयूपे पशूनुपाकरोति २०

इति प्रथमा कण्डिका


  1. Cf. TB I.8.5.3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.8.5.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XIX.1.18. ↩︎ ↩︎ ↩︎

  4. Caland suggests to read śrayaṇāni in the place of śrapaṇāni (cp. XIX.7.7;10). ↩︎ ↩︎

  5. TS 1.8.21.b. ↩︎