२२

01 दण्डो वाराही उपामहावित्येके ...{Loading}...

दण्डो वाराही उपामहावित्येके १

02 दण्डो वा शुष्को ...{Loading}...

दण्डो वा शुष्को वा दृतिर्जरदुपानहौ वा २

03 तान्यभ्यवस्नाप्य प्रतिराजभ्यः प्रहिणोति ...{Loading}...

तान्यभ्यवस्नाप्य प्रतिराजभ्यः प्रहिणोति ३

04 अभ्यषिक्षि राजाभूवमित्यावेदयते ...{Loading}...

अभ्यषिक्षि राजाभूवमित्यावेदयते ४

05 अपराह्णे षड्भिः प्रयुजां ...{Loading}...

अपराह्णे षड्भिः प्रयुजां हविर्भिर्यजते । आग्नेयमष्टाकपालमिति ५

06 दक्षिणो रथवाहनवाहो दक्षिणा ...{Loading}...

दक्षिणो रथवाहनवाहो दक्षिणा ६

07 श्वो भूते षड्भिरुत्तरैः ...{Loading}...

श्वो भूते षड्भिरुत्तरैः ७

08 उत्तरो रथवाहनवाहो दक्षिणा ...{Loading}...

उत्तरो रथवाहनवाहो दक्षिणा ८

09 संवत्सरमग्निहोत्रं हुत्वा केशवपनीयेनातिरात्रेण ...{Loading}...

संवत्सरमग्निहोत्रं हुत्वा केशवपनीयेनातिरात्रेण यजते ९

10 ये केशिनः प्रथमाः ...{Loading}...

ये केशिनः प्रथमाः सत्त्रमासतेति वपनप्रवादा मन्त्राः १०

11 तेषामादिप्रवादैरादितो वापयते अन्तप्रवादैरन्ततः ...{Loading}...

तेषामादिप्रवादैरादितो वापयते । अन्तप्रवादैरन्ततः ११

12 अनन्तरम् ब्युष्टिद्विरात्रेण यजते ...{Loading}...

अनन्तरं ब्युष्टिद्विरात्रेण यजते १२

13 अग्निष्टोमः पूर्वमहर्भवति अतिरात्र ...{Loading}...

अग्निष्टोमः पूर्वमहर्भवति । अतिरात्र उत्तरम् १३

14 पौर्णमास्याम् पूर्वमहर्भवति व्यष्टकायामुत्तरम् ...{Loading}...

पौर्णमास्यां पूर्वमहर्भवति । व्यष्टकायामुत्तरम् १४

15 अमावास्यायां वा पूर्वमहः ...{Loading}...

अमावास्यायां वा पूर्वमहः । उद्दृष्ट उत्तरम् १५

16 आपूर्यमाणपक्षस्य वा ये ...{Loading}...

आपूर्यमाणपक्षस्य वा ये पुण्ये अहनी स्याताम् १६

17 पञ्च पूर्वेऽहन्नैकादशिनानालभन्ते षडुत्तरे ...{Loading}...

पञ्च पूर्वेऽहन्नैकादशिनानालभन्ते । षडुत्तरे १७

18 क्षत्राणान् धृतिस्त्रिष्टोमोऽग्निष्टोमः पञ्चापवर्गः ...{Loading}...

क्षत्राणां धृतिस्त्रिष्टोमोऽग्निष्टोमः पञ्चापवर्गः १८

19 तेनान्ततो यजेत ...{Loading}...

तेनान्ततो यजेत १९

20 सन्तिष्ठते राजसूयः ...{Loading}...

सन्तिष्ठते राजसूयः २०

21 तेनेष्ट्वा सौत्रामण्या यजेत ...{Loading}...

तेनेष्ट्वा सौत्रामण्या यजेत मैत्रावरुण्या वामिक्षया २१

22 नानावभृथान्यहान्यन्यत्र द्विरात्रस्य प्रथमात्प्रथमात् ...{Loading}...

नानावभृथान्यहान्यन्यत्र द्विरात्रस्य प्रथमात्प्रथमात् २२

इति द्वाविंशी कण्डिका इत्यष्टादशः प्रश्नः


  1. Cf. MS II.6.13. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. JB II.204; ŚB V.5.3.5. ↩︎ ↩︎ ↩︎

  3. These five days are as follows: i. Dīkṣā-day, ii-iv. three Upasads-days, v. Sutyā-day. ↩︎