२१

01 श्वो भूते पात्रसंसादनकाले …{Loading}…

श्वो भूते पात्रसंसादनकाले दश चमसानधिकान्प्रयुनक्ति १

02 तानुन्नयनकाल उन्नयति …{Loading}…

तानुन्नयनकाल उन्नयति २

03 भक्षणकाले दशदशैकैकस्मिंश्चमसे ब्राह्मणाः …{Loading}…

भक्षणकाले दशदशैकैकस्मिंश्चमसे ब्राह्मणाः सोमपाः सोमं भक्षयन्त्या दशमात्पुरुषादविच्छिन्नसोमपीथाः ३

04 आ दशमात्पुरुषादन्वाख्यायं स …{Loading}…

आ दशमात्पुरुषादन्वाख्यायं स भक्षस्य कर्ता भवति ४

05 शतम् ब्राह्मणाः सोमपाः …{Loading}…

शतं ब्राह्मणाः सोमपाः सदः प्रसर्पन्ति ५

06 दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददाति …{Loading}…

दक्षिणाकाले हिरण्यप्राकाशावध्वर्यवे ददाति । हिरण्यस्रजमुद्गात्रे । रुक्मं होत्र इति यथासमाम्नातम् ६

07 अथैकेषाम् वेहायमानामिवोन्नेत्रे ददाति …{Loading}…

अथैकेषाम् । वेहायमानामिवोन्नेत्रे ददाति । ऋषभं ग्रावस्तुते । बस्तं सुब्रह्मण्याय । नेष्टुरनड्वान्देयः । अग्नीधेऽन्यः । स्थूरि यवाचितमच्छावाकायेति ७

08 दिशामवेष्ट्योदवस्यति …{Loading}…

दिशामवेष्ट्योदवस्यति ८

09 आग्नेयमष्टाकपालमिति पञ्च …{Loading}…

आग्नेयमष्टाकपालमिति पञ्च ९

10 तया ब्राह्मणो राजन्यो …{Loading}…

तया ब्राह्मणो राजन्यो वैश्यो वा तेजस्कामो यजेत १०

11 यदि ब्राह्मणो यजेत …{Loading}…

यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये कृत्वाहुतिमाहुतिं हुत्वा तमभिघारयेत् । यदि राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवम् ११

12 अपराह्णे द्विपशुना पशुबन्धेन …{Loading}…

अपराह्णे द्विपशुना पशुबन्धेन यजेत १२

13 आदित्याम् मल्हाङ् गर्भिणीमालभते …{Loading}…

आदित्यां मल्हां गर्भिणीमालभते । मारुतीं पृश्निं पष्ठौहीम् १३

14 उच्चैरादित्याया आश्रावयति उपांशु …{Loading}…

उच्चैरादित्याया आश्रावयति । उपांशु मारुत्या प्रचरति १४

15 आश्रुतप्रत्याश्रुतान्युपांशु …{Loading}…

आश्रुतप्रत्याश्रुतान्युपांशु १५

16 श्वो भूते सात्यदूतानान् …{Loading}…

श्वो भूते सात्यदूतानां त्रिहविषमिष्टिं निर्वपति । अश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालमिति १६

17 तिसृधन्वं शुष्कदृतिर्दक्षिणा …{Loading}…

तिसृधन्वं शुष्कदृतिर्दक्षिणा १७

इत्येकविंशी कण्डिका


  1. See XII.1.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cp. JB II.202; TMB XVIII.9.4. ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. TS I.8.18.1; TB I.8.2.2; ŚB V.4.5.3. ↩︎