२०

01 माहेन्द्रस्य प्रचरणादि कर्म ...{Loading}...

माहेन्द्रस्य प्रचरणादि कर्म प्रतिपद्यते १

02 समानमावभृथात् ...{Loading}...

समानमावभृथात् २

03 अवभृथेन प्रचर्यापान् नप्त्रे ...{Loading}...

अवभृथेन प्रचर्यापां नप्त्रे स्वाहेत्यप्सु जुहोति ३

04 ऊर्जो नप्त्रे स्वाहेत्यन्तरा ...{Loading}...

ऊर्जो नप्त्रे स्वाहेत्यन्तरा दर्भस्तम्बे स्थाणौ वल्मीकवपायां वा हुत्वाग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये हुत्वैन्द्रीं सूतवशामनूबन्ध्यामालभते ४

05 तस्याः पशुपुरोडाशन् नैवारञ् ...{Loading}...

तस्याः पशुपुरोडाशं नैवारं चतुष्पद्याः सूनाया निर्वपति ५

06 शकटप्रत्याम्नायो भवतीति विज्ञायते ...{Loading}...

शकटप्रत्याम्नायो भवतीति विज्ञायते ६

07 श्वो भूतेऽपरेण सौमिकन् ...{Loading}...

श्वो भूतेऽपरेण सौमिकं देवयजनम् दशभिः सप्तभिर्वा संसृपां हविर्भिर्यजेत । आग्नेयमष्टाकपालमिति ७

08 पूर्वम्पूर्वन् देवयजनमध्यवस्यति ...{Loading}...

पूर्वम्पूर्वं देवयजनमध्यवस्यति ८

09 यत्र पूर्वस्या आहवनीयस्तत्रोत्तरस्या ...{Loading}...

यत्र पूर्वस्या आहवनीयस्तत्रोत्तरस्या गार्हपत्यः ९

10 उत्तमायाः प्राग्वंश आहवनीयः ...{Loading}...

उत्तमायाः प्राग्वंश आहवनीयः । बहिर्गार्हपत्यह् १०

11 तयेष्ट्वापराह्णे दशपेयस्य तन्त्रम् ...{Loading}...

तयेष्ट्वापराह्णे दशपेयस्य तन्त्रं प्रक्रमयति ११

12 सद्यो दीक्षयन्ति ...{Loading}...

सद्यो दीक्षयन्ति १२

13 सद्यः सोमङ् क्रीणन्ति ...{Loading}...

सद्यः सोमं क्रीणन्ति १३

14 अपो दीक्षायाः स्थाने ...{Loading}...

अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते १४

15 दशभिर्वत्सतरैः साण्डैः सोमङ् ...{Loading}...

दशभिर्वत्सतरैः साण्डैः सोमं क्रीणाति १५

16 न पणते न ...{Loading}...

न पणते न परिवहति १६

17 क्रयमेवापाकरोति ...{Loading}...

क्रयमेवापाकरोति १७

18 एका दीक्षा तिस्र ...{Loading}...

एका दीक्षा तिस्र उपसदः १८

19 पुरस्तादुपसदां सौम्यञ् चरुन् ...{Loading}...

पुरस्तादुपसदां सौम्यं चरुं निर्वपति । अन्तरा त्वाष्ट्रमष्टाकपालम् । उपरिष्टाद्वैष्णवं त्रिकपालम् १९

20 तासान् तदेव प्रस्तरपरिधि ...{Loading}...

तासां तदेव प्रस्तरपरिधि यदुपसदाम् २०

21 भार्गवो होता भवति ...{Loading}...

भार्गवो होता भवति २१

22 श्रायन्तीयम् ब्रह्मसामम् भवति ...{Loading}...

श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् २२

23 सारस्वतीरपो गृह्णाति ...{Loading}...

सारस्वतीरपो गृह्णाति २३

इति विंशी कण्डिका