२०

01 माहेन्द्रस्य प्रचरणादि कर्म …{Loading}…

माहेन्द्रस्य प्रचरणादि कर्म प्रतिपद्यते १

02 समानमावभृथात् …{Loading}…

समानमावभृथात् २

03 अवभृथेन प्रचर्यापान् नप्त्रे …{Loading}…

अवभृथेन प्रचर्यापां नप्त्रे स्वाहेत्यप्सु जुहोति ३

04 ऊर्जो नप्त्रे स्वाहेत्यन्तरा …{Loading}…

ऊर्जो नप्त्रे स्वाहेत्यन्तरा दर्भस्तम्बे स्थाणौ वल्मीकवपायां वा हुत्वाग्नये गृहपतये स्वाहेति प्रत्येत्य गार्हपत्ये हुत्वैन्द्रीं सूतवशामनूबन्ध्यामालभते ४

05 तस्याः पशुपुरोडाशन् नैवारञ् …{Loading}…

तस्याः पशुपुरोडाशं नैवारं चतुष्पद्याः सूनाया निर्वपति ५

06 शकटप्रत्याम्नायो भवतीति विज्ञायते …{Loading}…

शकटप्रत्याम्नायो भवतीति विज्ञायते ६

07 श्वो भूतेऽपरेण सौमिकन् …{Loading}…

श्वो भूतेऽपरेण सौमिकं देवयजनम् दशभिः सप्तभिर्वा संसृपां हविर्भिर्यजेत । आग्नेयमष्टाकपालमिति ७

08 पूर्वम्पूर्वन् देवयजनमध्यवस्यति …{Loading}…

पूर्वम्पूर्वं देवयजनमध्यवस्यति ८

09 यत्र पूर्वस्या आहवनीयस्तत्रोत्तरस्या …{Loading}…

यत्र पूर्वस्या आहवनीयस्तत्रोत्तरस्या गार्हपत्यः ९

10 उत्तमायाः प्राग्वंश आहवनीयः …{Loading}…

उत्तमायाः प्राग्वंश आहवनीयः । बहिर्गार्हपत्यह् १०

11 तयेष्ट्वापराह्णे दशपेयस्य तन्त्रम् …{Loading}…

तयेष्ट्वापराह्णे दशपेयस्य तन्त्रं प्रक्रमयति ११

12 सद्यो दीक्षयन्ति …{Loading}…

सद्यो दीक्षयन्ति १२

13 सद्यः सोमङ् क्रीणन्ति …{Loading}…

सद्यः सोमं क्रीणन्ति १३

14 अपो दीक्षायाः स्थाने …{Loading}…

अपो दीक्षायाः स्थाने द्वादशपुण्डरीकां स्रजं प्रतिमुञ्चते १४

15 दशभिर्वत्सतरैः साण्डैः सोमङ् …{Loading}…

दशभिर्वत्सतरैः साण्डैः सोमं क्रीणाति १५

16 न पणते न …{Loading}…

न पणते न परिवहति १६

17 क्रयमेवापाकरोति …{Loading}…

क्रयमेवापाकरोति १७

18 एका दीक्षा तिस्र …{Loading}…

एका दीक्षा तिस्र उपसदः १८

19 पुरस्तादुपसदां सौम्यञ् चरुन् …{Loading}…

पुरस्तादुपसदां सौम्यं चरुं निर्वपति । अन्तरा त्वाष्ट्रमष्टाकपालम् । उपरिष्टाद्वैष्णवं त्रिकपालम् १९

20 तासान् तदेव प्रस्तरपरिधि …{Loading}…

तासां तदेव प्रस्तरपरिधि यदुपसदाम् २०

21 भार्गवो होता भवति …{Loading}…

भार्गवो होता भवति २१

22 श्रायन्तीयम् ब्रह्मसामम् भवति …{Loading}…

श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयमग्निष्टोमसामम् २२

23 सारस्वतीरपो गृह्णाति …{Loading}…

सारस्वतीरपो गृह्णाति २३

इति विंशी कण्डिका