१९

01 सौवर्णान्परःशतान्परःसहस्रान्वा ...{Loading}...

सौवर्णान्परःशतान्परःसहस्रान्वा १

02 ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ...{Loading}...

ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ओदनमुद्ब्रुवते २

03 तदेतस्य कर्मणः पूर्वावग्निवाहौ ...{Loading}...

तदेतस्य कर्मणः पूर्वावग्निवाहौ दक्षिणा ३

04 तौ ब्रह्मणे देयौ ...{Loading}...

तौ ब्रह्मणे देयौ ४

05 औद्भिद्यं राज्ञ इति ...{Loading}...

औद्भिद्यं राज्ञ इति तेभ्यश्चतुः शतान्सौवर्णानक्षानुदुप्य विजित्य दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान्राज्ञे प्रयच्छति ५

06 निति क्षत्तारम् ...{Loading}...

मङ्गल्यनाम्नो राजाह्वयति । सुश्लोकां३ इति संग्रहीतारम् । सुमङ्गलां३ इति भागदुघम् । सत्यराजा३निति क्षत्तारम् ६

07 तानाहूय चतुष्पत्क्षेत्रम् ब्रह्मणे ...{Loading}...

तानाहूय चतुष्पत्क्षेत्रं ब्रह्मणे ददाति ७

08 त उपद्रष्टारो भवन्ति ...{Loading}...

त उपद्रष्टारो भवन्ति ८

09 अत्र वा नामव्यतिषञ्जनीयौ ...{Loading}...

अत्र वा नामव्यतिषञ्जनीयौ होमौ जुहुयात् ९

10 शौनःशेपमाख्यापयते ऋचो गाथामिश्राः ...{Loading}...

शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः परःशताः परःसहस्रा वा १०

11 हिरण्यकशिपावासीनो होता शंसति ...{Loading}...

हिरण्यकशिपावासीनो होता शंसति ११

12 हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति ...{Loading}...

हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति १२

13 ओमित्यृचः प्रतिगरः तथेति ...{Loading}...

ओमित्यृचः प्रतिगरः । तथेति गाथायाः १३

14 अपवृत्ते शौनःशेपे हिरण्यकशिपु ...{Loading}...

अपवृत्ते शौनःशेपे हिरण्यकशिपु होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे । अभिषेचनीयौ च रुक्मौ १४

15 अत्र मारुतेन वैश्वदेव्या ...{Loading}...

अत्र मारुतेन वैश्वदेव्या च प्रचरति १५

16 समानन् तु स्विष्टकृदिडम् ...{Loading}...

समानं तु स्विष्टकृदिडम् १६

17 उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति ...{Loading}...

उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति १७

इत्येकोनविंशी कण्डिका