१९

01 सौवर्णान्परःशतान्परःसहस्रान्वा …{Loading}…

सौवर्णान्परःशतान्परःसहस्रान्वा १

02 ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त …{Loading}…

ब्राह्मणराजन्यवैश्यशूदाश्चत्वारस्तद्योगाः पष्ठौहीं विदीव्यन्त ओदनमुद्ब्रुवते २

03 तदेतस्य कर्मणः पूर्वावग्निवाहौ …{Loading}…

तदेतस्य कर्मणः पूर्वावग्निवाहौ दक्षिणा ३

04 तौ ब्रह्मणे देयौ …{Loading}…

तौ ब्रह्मणे देयौ ४

05 औद्भिद्यं राज्ञ इति …{Loading}…

औद्भिद्यं राज्ञ इति तेभ्यश्चतुः शतान्सौवर्णानक्षानुदुप्य विजित्य दिशोऽभ्ययं राजाभूदिति पञ्चाक्षान्राज्ञे प्रयच्छति ५

06 निति क्षत्तारम् …{Loading}…

मङ्गल्यनाम्नो राजाह्वयति । सुश्लोकां३ इति संग्रहीतारम् । सुमङ्गलां३ इति भागदुघम् । सत्यराजा३निति क्षत्तारम् ६

07 तानाहूय चतुष्पत्क्षेत्रम् ब्रह्मणे …{Loading}…

तानाहूय चतुष्पत्क्षेत्रं ब्रह्मणे ददाति ७

08 त उपद्रष्टारो भवन्ति …{Loading}…

त उपद्रष्टारो भवन्ति ८

09 अत्र वा नामव्यतिषञ्जनीयौ …{Loading}…

अत्र वा नामव्यतिषञ्जनीयौ होमौ जुहुयात् ९

10 शौनःशेपमाख्यापयते ऋचो गाथामिश्राः …{Loading}…

शौनःशेपमाख्यापयते । ऋचो गाथामिश्राः परःशताः परःसहस्रा वा १०

11 हिरण्यकशिपावासीनो होता शंसति …{Loading}…

हिरण्यकशिपावासीनो होता शंसति ११

12 हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति …{Loading}…

हिरण्यकूर्चयोस्तिष्ठन्नध्वर्युः प्रतिगृणाति १२

13 ओमित्यृचः प्रतिगरः तथेति …{Loading}…

ओमित्यृचः प्रतिगरः । तथेति गाथायाः १३

14 अपवृत्ते शौनःशेपे हिरण्यकशिपु …{Loading}…

अपवृत्ते शौनःशेपे हिरण्यकशिपु होत्रे ददाति । हिरण्यकूर्चावध्वर्यवे । अभिषेचनीयौ च रुक्मौ १४

15 अत्र मारुतेन वैश्वदेव्या …{Loading}…

अत्र मारुतेन वैश्वदेव्या च प्रचरति १५

16 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् १६

17 उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति …{Loading}…

उपहूतायामिडायामुन्मुच्य मणीन्ब्रह्मणे ददाति १७

इत्येकोनविंशी कण्डिका