१८

01 मित्रोऽसीति दक्षिणम् बाहुं ...{Loading}...

मित्रोऽसीति दक्षिणं बाहुं यजमान उपावहरते । वरुणोऽसीति सव्यम् १

02 एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् २

03 समहं विश्वैर्देवैरिति वैश्वदेव्यामामिक्षायां ...{Loading}...

समहं विश्वैर्देवैरिति वैश्वदेव्यामामिक्षायां हस्तावुपावहरते ३

04 सदसि सन्मे भूया ...{Loading}...

सदसि सन्मे भूया इति वा मैत्रावरुणीमामिक्षामेके समामनन्ति ४

05 अग्रेणाग्नीध्रञ् चतुरपस्रावं विमितं ...{Loading}...

अग्रेणाग्नीध्रं चतुरपस्रावं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चान्निनतम् ५

06 स्योनासि सुषदेति तस्मिन्खादिरीमासन्दीम् ...{Loading}...

स्योनासि सुषदेति तस्मिन्खादिरीमासन्दीं प्रतिष्ठाप्य क्षत्रस्य नाभिरसीति तस्यां कृत्त्यधीवासमास्तीर्यावनहनि विशि मा दृंहेत्यवनह्यति ६

07 स्योनामा सीद सुषदामा ...{Loading}...

स्योनामा सीद सुषदामा सीदेति तामासाद्य यजमानो मा त्वा हिंसीन्मा मा हिंसीदित्युपविशति ७

08 निषसाद धृतव्रत इत्यासीनमभिमन्त्रयते ...{Loading}...

निषसाद धृतव्रत इत्यासीनमभिमन्त्रयते ८

09 तमृत्विजो रत्निनश्च सर्वतः ...{Loading}...

तमृत्विजो रत्निनश्च सर्वतः पर्युपविशन्ति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा । पश्चाद्धोता । उत्तरत उद्गाता ९

10 नित्यध्वर्युं राजामन्त्रयते ...{Loading}...

उपविष्टेषु ब्रह्मा३ नित्यध्वर्युं राजामन्त्रयते १०

11 त्वं राजन्ब्रह्मासीतीतरः प्रत्याह ...{Loading}...

त्वं राजन्ब्रह्मासीतीतरः प्रत्याह ११

12 एवम् ब्रह्माणं होतारमुद्गातारञ् ...{Loading}...

एवं ब्रह्माणं होतारमुद्गातारं च १२

13 उत्तरेणोत्तरेण मन्त्रेणेतरे प्रत्याहुः ...{Loading}...

उत्तरेणोत्तरेण मन्त्रेणेतरे प्रत्याहुः १३

14 इन्द्रस्य वज्रोऽसीति स्फ्यम् ...{Loading}...

इन्द्रस्य वज्रोऽसीति स्फ्यं ब्रह्मा राज्ञे प्रयच्छति । राजा प्रतिहिताय । प्रतिहितः पुरोहिताय । पुरोहितो रत्निभ्यः १४

15 तमवरपरं सम्प्रयच्छन्ति अन्ततोऽक्षावापाय ...{Loading}...

तमवरपरं सम्प्रयच्छन्ति । अन्ततोऽक्षावापाय १५

16 तेनाक्षावापोऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपेत् ...{Loading}...

तेनाक्षावापोऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवपेत् १६

इत्यष्टादशी कण्डिका


  1. Cf. MS IV.4.6. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.8.16.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf. ŚB V.4.3.27. ↩︎ ↩︎

  4. TS I.8.16.c. ↩︎

  5. This formula occurs besides here only in SatyāŚs. ↩︎