१७

01 इन्द्रस्य वज्रोऽसीति रथमुपावहृत्य ...{Loading}...

इन्द्रस्य वज्रोऽसीति रथमुपावहृत्य मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति प्रष्टिवाहिनं रथं युनक्ति १

02 विष्णोः क्रमोऽसीति रथं ...{Loading}...

विष्णोः क्रमोऽसीति रथं यजमानो ऽभ्येति २

03 यः क्षत्रियः प्रतिहितः ...{Loading}...

यः क्षत्रियः प्रतिहितः सोऽन्वारभते ३

04 प्र ससाहिषे पुरुहूतेत्येतयैव ...{Loading}...

प्र ससाहिषे पुरुहूतेत्येतयैव दक्षिणतो ब्रह्मान्वेति ४

05 मरुताम् प्रसवे जेषमिति ...{Loading}...

मरुतां प्रसवे जेषमिति प्रयाति ५

06 सधनू राजन्यः पुरस्तादुत्तरतो ...{Loading}...

सधनू राजन्यः पुरस्तादुत्तरतो वावस्थितो भवति ६

07 तस्मा एतानिषूनस्यत्याप्तम् मन ...{Loading}...

तस्मा एतानिषूनस्यत्याप्तं मन इति ७

08 एकैकमुत्सृज्य तञ् जित्वा ...{Loading}...

एकैकमुत्सृज्य तं जित्वा समहमिन्द्रियेण वीर्येणेति प्रदक्षिणमावर्तते ८

09 यतः प्रयाति तदवतिष्ठते ...{Loading}...

यतः प्रयाति तदवतिष्ठते ९

10 इन्द्रस्य वज्रोऽसीति धनुरार्त्न्या ...{Loading}...

इन्द्रस्य वज्रोऽसीति धनुरार्त्न्या पत्नीमश्वांश्चोपनुदति १०

11 एष वज्रो वाजसास्तेन ...{Loading}...

एष वज्रो वाजसास्तेन नौ पुत्रो वाजं सेदिति धनुः पत्न्यै प्रयच्छति ११

12 पशूनाम् मन्युरसीति वाराही ...{Loading}...

पशूनां मन्युरसीति वाराही उपानहावुपमुच्य नमो मात्र इत्यवरोक्ष्यन्पृथिवीमभिमन्त्र्यावरुह्य मणीन्प्रतिमुञ्चते । इयदसीति राजतम् । ऊर्गसीत्यौदुम्बरम् । युङ्ङसीति सौवर्णम् १२

13 मध्ये सौवर्णमेके समामनन्ति ...{Loading}...

मध्ये सौवर्णमेके समामनन्ति १३

14 अग्नये गृहपतये स्वाहेति ...{Loading}...

अग्नये गृहपतये स्वाहेति रथविमोचनीयान्होमान्हुत्वा हंसः शुचिषदिति सह सङ्ग्रहीत्रा रथवहने रथमत्यादधाति १४

15 आहिते सङ्ग्रहीतावरोहति ...{Loading}...

आहिते सङ्ग्रहीतावरोहति १५

इति सप्तदशी कण्डिका


  1. TS I.8.15.a. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.7.9.1; cp. XVIII.3.1;3. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.8.15.b. ↩︎ ↩︎ ↩︎

  4. Cf. MS IV.4.6. ↩︎

  5. TS I.8.15.i. ↩︎ ↩︎ ↩︎