१६

01 पालाशेन पुरस्तादध्वर्युः ...{Loading}...

पालाशेन पुरस्तादध्वर्युः १

02 एवमितरे ...{Loading}...

एवमितरे २

03 औदुम्बरेण दक्षिणतो ब्रह्मा ...{Loading}...

औदुम्बरेण दक्षिणतो ब्रह्मा । राजन्यो वा ३

04 आश्वत्येन पश्चाद्वैश्यः ...{Loading}...

आश्वत्येन पश्चाद्वैश्यः ४

05 नैयग्रोधेनोत्तरतो जन्यमित्रम् ...{Loading}...

नैयग्रोधेनोत्तरतो जन्यमित्रम् ५

06 क्षत्राणाङ् क्षत्रपतिरसीत्यभिषिच्यमानमभिमन्त्रयते ...{Loading}...

क्षत्राणां क्षत्रपतिरसीत्यभिषिच्यमानमभिमन्त्रयते ६

07 समाववृत्रन्निति ये ऽभिषिच्यमानस्य ...{Loading}...

समाववृत्रन्निति ये ऽभिषिच्यमानस्य लेपा व्यवस्रवन्ति ७

08 तान्पात्रैरुन्मार्ष्टि ...{Loading}...

तान्पात्रैरुन्मार्ष्टि ८

09 इन्द्रस्य योनिरसि जनधा ...{Loading}...

इन्द्रस्य योनिरसि जनधा इति कृष्णविषाणया वासांसि विचचृते । एकं द्वे सर्वाणि वा ९

10 तान्युत्कर उदस्यत्यति दिवस्पाहीति ...{Loading}...

तान्युत्कर उदस्यत्यति दिवस्पाहीति १०

11 इन्द्राय स्वाहेति षट् ...{Loading}...

इन्द्राय स्वाहेति षट् पार्थान्युपरिष्टादभिषेकस्य जुहोति ११

12 अद्भ्यः स्वाहेति षड्भूतानामवेष्टीः ...{Loading}...

अद्भ्यः स्वाहेति षड्भूतानामवेष्टीः १२

13 अत्र वा प्ररेकञ् ...{Loading}...

अत्र वा प्ररेकं जुहुयात् १३

14 याम् भार्याङ् कामयेत ...{Loading}...

यां भार्यां कामयेत राष्ट्रमस्यै प्रजा स्यादिति तस्या औपासने प्रतिहितमारम्भयित्वा ये पात्रेषु लेपा व्यवसृतास्तेभ्यो नामव्यतिषञ्जनीयौ होमौ जुहुयात् प्रजापते न त्वदेतानीति १४

15 असावमुष्य पुत्रोऽमुष्या असौ ...{Loading}...

असावमुष्य पुत्रोऽमुष्या असौ पुत्र इति नामनी व्यतिषजति १५

16 नामानीत्येके ...{Loading}...

नामानीत्येके १६

इति षोडशी कण्डिका


  1. Cf. TB I.7.8.7; XVIII.13.21. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Thus they first recite TS I.8.14.f on the sacrificer and pour water on him with TS I.8.14.g. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎