१५

01 समिधमा तिष्ठेति मनसा ...{Loading}...

समिधमा तिष्ठेति । मनसा चानुप्रक्रामति १

02 अत्र वा मारुतन् ...{Loading}...

अत्र वा मारुतं निर्वपेत् २

03 तम् बर्हिषदङ् कृत्वैना ...{Loading}...

तं बर्हिषदं कृत्वैना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय । समुद्रं न सहुवं तस्थिवांसम् मर्मृज्यन्ते द्वीपिनमप्स्वन्तरिति स्फ्येन पुरोडाशमभिचरन्निहन्ति ३

04 यत्स्फ्य आश्लिष्यति यच्च ...{Loading}...

यत्स्फ्य आश्लिष्यति यच्च प्रतिशीर्यते तद्विष्णवे शिपिविष्टाय जुहोति ४

05 अग्रेण प्रशास्तुर्धिष्णियङ् खादिरीमौदुम्बरीं ...{Loading}...

अग्रेण प्रशास्तुर्धिष्णियं खादिरीमौदुम्बरीं वासन्दीं प्रतिष्ठाप्य सोमस्य त्विषिरसीति तस्यां शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमास्तीर्यामृतमसीति तस्मिञ्छतमानं हिरण्यं निधाय दिद्योन्मा पाहीति सौवर्णेन शतमानेन शतक्षरेण शतकृष्णलेन वा यजमानस्य शीर्षन्नधि निधत्ते ५

06 तामारोहन्यजमानोऽवेष्टा दन्दशूका इति ...{Loading}...

तामारोहन्यजमानोऽवेष्टा दन्दशूका इति दक्षिणेन पदा सीसं पण्डकाय प्रत्यस्यति । निरस्तं नमुचेः शिर इति सव्येन लोहितायसं केशवापाय ६

07 तौ बहिर्वेदि निरस्यतः ...{Loading}...

तौ बहिर्वेदि निरस्यतः ७

08 अग्नये स्वाहेति षट् ...{Loading}...

अग्नये स्वाहेति षट् पार्थानि पुरस्तादभिषेकस्य जुहोति ८

09 पृथिव्यै स्वाहेति षड्भूतानामवृष्टीः ...{Loading}...

पृथिव्यै स्वाहेति षड्भूतानामवृष्टीः ९

10 ऊर्ध्वबाहुन् तिष्ठन्तम् माहेन्द्रस्य ...{Loading}...

ऊर्ध्वबाहुं तिष्ठन्तं माहेन्द्रस्य स्तोत्रं प्रत्यभिषिञ्चति १०

11 सोमो राजेत्यभिमन्त्र्य सोमस्य ...{Loading}...

सोमो राजेत्यभिमन्त्र्य सोमस्य त्वा द्युम्नेनाभिषिञ्चामीति ११

इति पञ्चदशी कण्डिका


  1. TS I.8.13.a-e. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. According to TB (1.7.7.1) it is the sacrificer who ascends mentally. Caland suggests this possibility to be more acceptable and according to him the text amendation should be “vā” in the place of “ca”. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.8.14.a. ↩︎ ↩︎ ↩︎

  4. TS I.b.14.b. ↩︎ ↩︎

  5. MS IV.4.4. ↩︎ ↩︎

  6. TB I.7.8.2. ↩︎ ↩︎