१४

01 क्षत्रस्योल्बमसीति तार्प्यं यजमानः ...{Loading}...

क्षत्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते । क्षत्रस्य योनिरसीति पाण्डरमुष्णीषं द्वितीयम् १

02 श्वेतम् पाण्डरमित्याचक्षते ...{Loading}...

श्वेतं पाण्डरमित्याचक्षते २

03 म् त्रीण्येके पाण्डरतार्प्योष्णीषाणि ...{Loading}...

म् त्रीण्येके पाण्डरतार्प्योष्णीषाणि ३

04 शिरसि वोष्णीषम् ...{Loading}...

शिरसि वोष्णीषम् ४

05 अथैनमेकशतेन दर्भपुञ्जीलैः पवयति ...{Loading}...

अथैनमेकशतेन दर्भपुञ्जीलैः पवयति । एकशतेनाङ्क्ते ५

06 पञ्चाशता दक्षिणमक्षि एकपञ्चाशतोत्तरम् ...{Loading}...

पञ्चाशता दक्षिणमक्षि । एकपञ्चाशतोत्तरम् ६

07 अथैनन् दध्याशयति औदुम्बरं ...{Loading}...

अथैनं दध्याशयति । औदुम्बरं शष्पाणि च ७

08 अङ्क्तेऽभ्यङ्क्तेऽश्नाति वासः परिधत्त ...{Loading}...

अङ्क्तेऽभ्यङ्क्तेऽश्नाति वासः परिधत्त इत्येवमनुपूर्वाण्येके समामनन्ति ८

09 आग्नीध्र एतानि कर्माणि ...{Loading}...

आग्नीध्र एतानि कर्माणि क्रियन्ते ९

10 अप उपस्पर्शयित्वाविन्नो अग्निरित्याविदो ...{Loading}...

अप उपस्पर्शयित्वाविन्नो अग्निरित्याविदो यजमानं वाचयन्बहिरुदानीयैष वो भरता राजेत्युक्तेन्द्रस्य वज्रोऽसीति धनुर्यजमानाय प्रयच्छति १०

11 शत्रुबाधना स्थेति त्रीन्बाणवतः ...{Loading}...

शत्रुबाधना स्थेति त्रीन्बाणवतः ११

12 पात मा प्रत्यञ्चमिति ...{Loading}...

पात मा प्रत्यञ्चमिति प्रदीयमानाननुमन्त्रयते १२

13 पात प्राञ्चम् पात ...{Loading}...

पात प्राञ्चं पात प्रत्यञ्चं पातोदञ्चमिति प्रयच्छन्नध्वर्युर्जपति १३

14 मित्रोऽसीति दक्षिणम् बाहुं ...{Loading}...

मित्रोऽसीति दक्षिणं बाहुं यजमान उद्यच्छते । वरुणोऽसीति सव्यम् १४

15 एतद्वा विपरीतम् ...{Loading}...

एतद्वा विपरीतम् १५

16 हिरण्यवर्णावित्युद्यतावभिमन्त्रयते ...{Loading}...

हिरण्यवर्णावित्युद्यतावभिमन्त्रयते १६

17 अथैनम् पञ्चभिर्दिशो व्यास्थापयति ...{Loading}...

अथैनं पञ्चभिर्दिशो व्यास्थापयति १७

इति चतुर्दशी कण्डिका


  1. TS I.8.12.f. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See the note on XVIII.5.7. ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.8.12.f. ↩︎ ↩︎

  4. Cf. MS IV.4.3; See the next SŪtra. ↩︎ ↩︎

  5. Cf. TB I.7.6.8. ↩︎

  6. TS I.8.12.i. ↩︎