१३

01 अर्थेति स्थेति सारस्वतीष्वप्सु ...{Loading}...

अर्थेति स्थेति सारस्वतीष्वप्सु हुत्वैतेनैव मन्त्रेण गृह्णाति १

02 एवमुत्तरैः येन जुहोति ...{Loading}...

एवमुत्तरैः । येन जुहोति तेन गृह्णाति २

03 अपाम् पतिरिति समुद्रियाः ...{Loading}...

अपां पतिरिति समुद्रियाः सैन्धवीर्वा यो वान्यः पुन्नदः स्यात् ३

04 पुरुषे पशौ वाभ्यवेते ...{Loading}...

पुरुषे पशौ वाभ्यवेते प्रतीपमन्य ऊर्मिर्युध्यति अन्वीपमन्यः ४

05 वृषासीति यः प्रतीपम् ...{Loading}...

वृषासीति यः प्रतीपम् । वृषसेनोऽसीति योऽन्वीपम् ५

06 व्रजक्षित स्थेति कूप्यानाम् ...{Loading}...

व्रजक्षित स्थेति कूप्यानाम् ६

07 मरुतामोज स्थेति याः ...{Loading}...

मरुतामोज स्थेति याः प्रतीपं गच्छन्ति । ह्रादुनीनां वा ७

08 प्रहावरी स्थेति या ...{Loading}...

प्रहावरी स्थेति या उत्स्यन्दित्वा तत्रैव प्रत्यवसिच्यन्ते ८

09 परिवाहिणी स्थेति परिनदीनाम् ...{Loading}...

परिवाहिणी स्थेति परिनदीनाम् ९

10 सूर्यवर्चस इत्यातपति वर्ष्याणाम् ...{Loading}...

सूर्यवर्चस इत्यातपति वर्ष्याणाम् १०

11 सूर्यत्वचस इति यासु ...{Loading}...

सूर्यत्वचस इति यासु रूपाणि परिदृश्यन्ते ११

12 मान्दा इति स्थावराणाम् ...{Loading}...

मान्दा इति स्थावराणाम् १२

13 वाशा इति प्रुष्वाणाम् ...{Loading}...

वाशा इति प्रुष्वाणाम् १३

14 शक्वरीरिति गोरुल्व्यानाम् ...{Loading}...

शक्वरीरिति गोरुल्व्यानाम् १४

15 विश्वभृत इति पयसः ...{Loading}...

विश्वभृत इति पयसः १५

16 जनभूत इति दध्नः ...{Loading}...

जनभूत इति दध्नः १६

17 अग्नेस्तेजस्या इति घृतस्य ...{Loading}...

अग्नेस्तेजस्या इति घृतस्य १७

18 अपामोषधीनां रस इति ...{Loading}...

अपामोषधीनां रस इति मधुनः १८

19 अपो देवीर्मधुमतीरगृह्णन्निति सर्वत्र ...{Loading}...

अपो देवीर्मधुमतीरगृह्णन्निति सर्वत्र होमे ग्रहणे चानुषजति १९

20 राष्ट्रदा स्थ राष्ट्रन् ...{Loading}...

राष्ट्रदा स्थ राष्ट्रं दत्त स्वाहेति होमसंयुक्ते । राष्ट्रदा स्थ राष्ट्रममुष्मै दत्तेति ग्रहणसंयुक्ते २०

21 देवीराप इति वैतसे ...{Loading}...

देवीराप इति वैतसे सते ग्रहान्समवनीयानाधृष्टाः सीदतेत्यन्तरा होतुर्धिष्णियं ब्राह्मणाच्छंसिनश्च सादयित्वा निभृष्टमसीति तस्मिञ्छतमानं हिरण्यमवधाय शुक्रा वः शुक्रेणोत्पुनामीति तेनोत्पूय सधमादो द्युम्निनीरूर्ज एता इति चतुर्षु पात्रेषु व्यानयति । पालाश औदुम्बर आश्वत्थे नैयग्रोधे च २१

22 यः सते प्ररेकस्तमुदङ् ...{Loading}...

यः सते प्ररेकस्तमुदङ् परेत्य रुद्र यत्ते क्रयी परं नामेत्याग्नीध्रीये जुहोति २२

इति त्रयोदशी कण्डिका


  1. i.e. a river the name of which is masculine. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. ŚB XII.8.3.15. ↩︎ ↩︎

  3. TS I.8.12.a. ↩︎

  4. Cf. TB I.7.6.1. ↩︎

  5. TS I.8.12.b. ↩︎

  6. Cf. TB I.7.6.1. ↩︎

  7. Cf. TB I.7.6.1. ↩︎

  8. TS I.8.12.c. ↩︎

  9. TS I.8.12.d. ↩︎

  10. Cf. MS IV.4.2; ŚB V.3.5.19. ↩︎

  11. Cf. ŚB XII.8.3.11-14. ↩︎

  12. TS I.8.12.e. ↩︎

  13. Cf. ŚB XII.8.3.11-14. ↩︎