१२

01 तथाभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रवर्धयति …{Loading}…

तथाभिषेचनीयस्योक्थ्यस्य दीक्षाः प्रवर्धयति यथा संवत्सरस्य दशरात्रे शिष्टे दशपेयो भविष्यतीति १

02 सह सोमौ क्रीणात्यभिषेचनीयाय …{Loading}…

सह सोमौ क्रीणात्यभिषेचनीयाय दशपेयाय च । सह परिवहति २

03 अर्धं राज्ञः पुरोहितस्य …{Loading}…

अर्धं राज्ञः पुरोहितस्य गृहे दशपेयार्थं निदधाति ३

04 अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां …{Loading}…

अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींष्यनुनिर्वपति ४

05 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् ५

06 पुरस्तात्स्विष्टकृतं सविता त्वा …{Loading}…

पुरस्तात्स्विष्टकृतं सविता त्वा प्रसवानां सुवतामिति ब्रह्मा यजमानस्य हस्तं गृह्णाति ६

07 अथैनं रत्निभ्य आवेदयत्येष …{Loading}…

अथैनं रत्निभ्य आवेदयत्येष वो भरता राजेति । एष वः कुरवो राजेति कौरव्यम् । एष वः पञ्चाला राजेति पाञ्चालम् । एष वः कुरुपञ्चाला राजेति वा कुरुपाञ्चालान् । एष वो जनता राजेत्यन्यान्त्राज्ञः ७

08 सोमोऽस्माकम् ब्राह्मणानां राजेति …{Loading}…

सोमोऽस्माकं ब्राह्मणानां राजेति ब्रह्मा जपति ८

09 प्रति त्यन्नाम राज्यमधायीति …{Loading}…

प्रति त्यन्नाम राज्यमधायीति वारुणीभ्यां यजमानो मुखं विमृष्टे ९

10 विष्णोः क्रमोऽसीति त्रीन्विष्णुक्रमान्प्राचः …{Loading}…

विष्णोः क्रमोऽसीति त्रीन्विष्णुक्रमान्प्राचः क्रामति १०

11 प्राङ् माहेन्द्रात्कृत्वा माध्यन्दिनीयान्पुरोडाशान्निरुप्य …{Loading}…

प्राङ् माहेन्द्रात्कृत्वा माध्यन्दिनीयान्पुरोडाशान्निरुप्य मारुतमेकविंशतिकपालं निर्वपति । वैश्वदेवीं चामिक्षाम् ११

12 तस्यारण्येऽनुवाक्यतृतीयैर्गणैः कपालान्युपदधाति ईदृङ् …{Loading}…

तस्यारण्येऽनुवाक्यतृतीयैर्गणैः कपालान्युपदधाति । ईदृङ् चान्यादृङ् चेत्येताभ्याम् । मध्येऽरण्येऽनुवाक्येन १२

13 अभिवास्यापाङ् ग्रहान्गृह्णाति …{Loading}…

अभिवास्यापां ग्रहान्गृह्णाति १३

14 आग्नीध्रे वायव्यैर्गृह्यन्ते …{Loading}…

आग्नीध्रे वायव्यैर्गृह्यन्ते १४

15 षोडश सप्तदश वा …{Loading}…

षोडश सप्तदश वा होमा हूयन्ते १५

16 तावन्त एव ग्रहा …{Loading}…

तावन्त एव ग्रहा गृह्यन्ते १६

इति द्वादशी कण्डिका


  1. See XVIII.20. 11ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.7.4.2; ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS I.8.10.b-c. ↩︎ ↩︎ ↩︎

  4. Cf. TB 1.7.10.1; cp. XVIII.18.3-4 and XVIII. 19.15ff. ↩︎