११

01 अयन् नो राजा …{Loading}…

अयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यादिति पुरस्तात्स्विष्टकृतोऽध्वर्युर्जपति १

02 स्वयमवपन्नाया अश्वत्थशाखायै मैत्रम् …{Loading}…

स्वयमवपन्नाया अश्वत्थशाखायै मैत्रं पात्रं चतुःस्रक्तिं करोति २

03 श्वेतां श्वेतवत्सामामस्त्ये दृतौ …{Loading}…

श्वेतां श्वेतवत्सामामस्त्ये दृतौ दुहन्ति ३

04 तत्स्वयम्मूर्तं संयोगेन परिवहन्ति …{Loading}…

तत्स्वयम्मूर्तं संयोगेन परिवहन्ति ४

05 तत्स्वयम्मथितमातपे विषजन्ति …{Loading}…

तत्स्वयम्मथितमातपे विषजन्ति ५

06 तत्स्वयंविलीनमाज्यम् भवति …{Loading}…

तत्स्वयंविलीनमाज्यं भवति ६

07 श्वो भूते ऽभिषेचनीयस्योवथ्यस्य …{Loading}…

श्वो भूते ऽभिषेचनीयस्योवथ्यस्य दीक्षाः प्रक्रमयति ७

08 मैत्राबार्हस्पत्या दीक्षणीया …{Loading}…

मैत्राबार्हस्पत्या दीक्षणीया ८

09 स्वयङ्कृता वेदिर्भवति स्वयन्दिनम् …{Loading}…

स्वयङ्कृता वेदिर्भवति । स्वयन्दिनं बर्हिः । स्वयङ्कृत इध्मः ९

10 अथैकेषाम् अर्धं वेद्याः …{Loading}…

अथैकेषाम् । अर्धं वेद्याः कुर्वन्ति । अर्धं स्वयङ्कृतम् । अर्धं बर्हिर्दाति । अर्धं स्वयन्दिनमुपसन्नह्यति । अर्धमिध्मस्य वृश्चति । अर्धं स्वयंवृक्णम् १०

11 संलोभ्यम् बर्हिः सञ्चार्य …{Loading}…

संलोभ्यं बर्हिः । सञ्चार्य इध्म इत्येके ११

12 पात्रसंसादनकाले बार्हस्पत्यञ् चरुम् …{Loading}…

पात्रसंसादनकाले बार्हस्पत्यं चरुं मैत्रं च पात्रं कपालानां स्थाने प्रयुनक्ति १२

13 त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण विविनक्ति कर्णांश्चाकर्णांश्च …{Loading}…

त्रिष्फलीकृतांस्तण्डुलान्विभागमन्त्रेण विविनक्ति कर्णांश्चाकर्णांश्च १३

14 क्षोदिष्ठांश्च स्थविष्ठांश्चेत्येके …{Loading}…

क्षोदिष्ठांश्च स्थविष्ठांश्चेत्येके १४

15 ये कर्णाः स …{Loading}…

ये कर्णाः स पयसि बार्हस्पत्यः १५

16 यदा शृतो भवत्यथैनम् …{Loading}…

यदा शृतो भवत्यथैनं मैत्रेण पात्रेणापिदधाति १६

17 तस्मिन्स्वयंविलीनमानयति …{Loading}…

तस्मिन्स्वयंविलीनमानयति १७

18 पवित्रवत्याज्येऽकर्णानावपति …{Loading}…

पवित्रवत्याज्येऽकर्णानावपति १८

19 तावुत्तराधरौ करोति …{Loading}…

तावुत्तराधरौ करोति १९

20 एवं सहशृतौ भवतः …{Loading}…

एवं सहशृतौ भवतः २०

21 बार्हस्पत्यमासाद्य मैत्रमासादयति …{Loading}…

बार्हस्पत्यमासाद्य मैत्रमासादयति २१

22 एवम् प्रचरति …{Loading}…

एवं प्रचरति २२

23 शितिपृष्ठो बार्हस्पत्यस्य दक्षिणा …{Loading}…

शितिपृष्ठो बार्हस्पत्यस्य दक्षिणा । अश्वो मैत्रस्य । सा चैव श्वेता श्वेतवत्सा २३

इत्येकादशी कण्डिका


  1. This Svṣṭakr̥t-libation forms a part of the offering to Indra (XVIII. 10.28). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.8.9.2. ↩︎ ↩︎ ↩︎ ↩︎