१०

01 अग्निहोत्रं हुत्वा देविकाहवींषि ...{Loading}...

अग्निहोत्रं हुत्वा देविकाहवींषि निर्वपति १

02 धात्रे पुरोडाशन् द्वादशकपालमिति ...{Loading}...

धात्रे पुरोडाशं द्वादशकपालमिति पञ्च २

03 मिथुनौ गावौ दक्षिणा ...{Loading}...

मिथुनौ गावौ दक्षिणा ३

04 पशुरप्यत्रोपालम्भ्यो धात्रे न ...{Loading}...

पशुरप्यत्रोपालम्भ्यो धात्रे । न वा ४

05 आग्नावैष्णवमेकादशकपालमिति त्रीणि हवींषि ...{Loading}...

आग्नावैष्णवमेकादशकपालमिति त्रीणि हवींषि ५

06 तेषाम् प्रथमेन ग्रामकामो ...{Loading}...

तेषां प्रथमेन ग्रामकामो यजेत । द्वितीयेन ब्रह्मवर्चसकामः । तृतीयेन पशुकामः ६

07 वीरजननमित्येके ...{Loading}...

वीरजननमित्येके ७

08 वैश्वानरन् द्वादशकपालन् निर्वपति ...{Loading}...

वैश्वानरं द्वादशकपालं निर्वपति ८

09 हिरण्यन् दक्षिणा ...{Loading}...

हिरण्यं दक्षिणा ९

10 वारुणं यवमयं सर्वतः ...{Loading}...

वारुणं यवमयं सर्वतः प्रादेशमात्रं चरुम् १०

11 अश्वोऽव्युप्तवहो दक्षिणा ...{Loading}...

अश्वोऽव्युप्तवहो दक्षिणा ११

12 बार्हस्पत्यञ् चरुमिति द्वादशान्वहं ...{Loading}...

बार्हस्पत्यं चरुमिति द्वादशान्वहं रत्निनां हवींषि १२

13 यस्य गृहे निर्वपति ...{Loading}...

यस्य गृहे निर्वपति तत इष्टि परिवेषणं दक्षिणा च १३

14 भगाय चरुश्चतुर्थो वावातायै ...{Loading}...

भगाय चरुश्चतुर्थो वावातायै गृहे १४

15 विचित्तगर्भा पष्ठौही दक्षिणा ...{Loading}...

विचित्तगर्भा पष्ठौही दक्षिणा १५

16 नैरृतः सर्वतोऽङ्गुष्ठपर्वमात्रश्चरुरित्येके ...{Loading}...

नैरृतः सर्वतोऽङ्गुष्ठपर्वमात्रश्चरुरित्येके १६

17 वैष्णवन् त्रिकपालन् त्रयोदशन् ...{Loading}...

वैष्णवं त्रिकपालं त्रयोदशं तक्षरथकारयोर्गृहे १७

18 सर्वायसानि दक्षिणा ...{Loading}...

सर्वायसानि दक्षिणा १८

19 तक्ष्णो रथकारस्य वेत्येके ...{Loading}...

तक्ष्णो रथकारस्य वेत्येके १९

20 रौद्रङ् गावीधुकञ् चरुमक्षावापस्य ...{Loading}...

रौद्रं गावीधुकं चरुमक्षावापस्य गृहे । गोविकर्तस्य वा २०

21 केसरपाशाभिधानी दक्षिणा कृपाणो ...{Loading}...

केसरपाशाभिधानी दक्षिणा । कृपाणो वालाभिवीतः शबलो वा २१

22 त्रिवत्स इति विज्ञायते ...{Loading}...

त्रिवत्स इति विज्ञायते २२

23 असिर्वालावृतो वार्ध्रीवालप्रतिग्रथिता गोव्यच्छिनी ...{Loading}...

असिर्वालावृतो वार्ध्रीवालप्रतिग्रथिता गोव्यच्छिनी बरासी दामतूषा शबलो वा वत्सतरः २३

24 अश्वः शोणकर्ण इत्येके ...{Loading}...

अश्वः शोणकर्ण इत्येके २४

25 अध्वने स्वाहेति पालाकलस्य ...{Loading}...

अध्वने स्वाहेति पालाकलस्य गृहे जुहोति २५

26 अनृतदूतम् ब्रुवते ...{Loading}...

अनृतदूतं ब्रुवते २६

27 त्रयश्चर्ममया बाणवन्तो दक्षिणा ...{Loading}...

त्रयश्चर्ममया बाणवन्तो दक्षिणा । धनुर्वा वेत्रवेष्टितम् २७

28 यजमानस्य गृह इन्द्राय ...{Loading}...

यजमानस्य गृह इन्द्राय सुत्राम्णे पुरोडाशमेकादशकपालं प्रतिनिर्वपति । इन्द्रायांहोमुच एकादशकपालम् २८

29 ऋषभो दक्षिणा ...{Loading}...

ऋषभो दक्षिणा २९

30 निष्कः कवचमित्येके ...{Loading}...

निष्कः कवचमित्येके ३०

इति दशमी कण्डिका