०९

01 स्वाहा नमो य …{Loading}…

स्वाहा नमो य इदं चकारेति पुनरेत्य गार्हपत्ये हुत्वानुमतेन प्रचरति १

02 धेनुर्दक्षिणा …{Loading}…

धेनुर्दक्षिणा २

03 आदित्यञ् चरुमित्येताभिरन्वहमिष्ट्वा चातुर्मास्यान्यालभते …{Loading}…

आदित्यं चरुमित्येताभिरन्वहमिष्ट्वा चातुर्मास्यान्यालभते ३

04 तैः संवत्सरं यजते …{Loading}…

तैः संवत्सरं यजते ४

05 न शुनासीरीयम् प्रतिसमस्यति …{Loading}…

न शुनासीरीयं प्रतिसमस्यति ५

06 ततश्चतुर्हविषेन्द्रतुरीयेण यजते …{Loading}…

ततश्चतुर्हविषेन्द्रतुरीयेण यजते ६

07 आग्नेयमष्टाकपालमिति …{Loading}…

आग्नेयमष्टाकपालमिति ७

08 वहिनी धेनुर्दक्षिणा …{Loading}…

वहिनी धेनुर्दक्षिणा ८

09 तया भ्रातृव्यवन्तम् प्रियं …{Loading}…

तया भ्रातृव्यवन्तं प्रियं वा याजयेत् ९

10 एतस्या एव रात्रेर्निशायाम् …{Loading}…

एतस्या एव रात्रेर्निशायां पञ्चेध्मीयेन यजते १०

11 चतुर्धाहवनीयम् प्रतिदिशं व्युद्धृत्य …{Loading}…

चतुर्धाहवनीयं प्रतिदिशं व्युद्धृत्य मध्ये पञ्चमं कृत्वा पृथगिध्मानुपसमाधाय जुह्वां पञ्चगृहीतं गृहीत्वा ये देवाः पुरःसद इत्येतैर्यथालिङ्गं जुहोति । मध्ये पञ्चमेन ११

12 समूढं रक्ष इति …{Loading}…

समूढं रक्ष इति मध्य इध्मानुपसमूह्यैकधोपसमाधायापरं पञ्चगृहीतं गृहीत्वाग्नये रक्षोघ्ने स्वाहेत्युत्तराः पञ्चाहुतीर्जुहोति १२

13 प्रष्टिवाही रथो दक्षिणा …{Loading}…

प्रष्टिवाही रथो दक्षिणा । पञ्चवाही वा १३

14 तेन यजेत यो …{Loading}…

तेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा १४

15 व्युष्टायाम् पुराग्निहोत्रादपामार्गहोमेन चरन्ति …{Loading}…

व्युष्टायां पुराग्निहोत्रादपामार्गहोमेन चरन्ति १५

16 अपान् न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा …{Loading}…

अपां न्ययनादपामार्गानाहृत्य तान्सक्तून्कृत्वा दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति १६

17 उत्तरमपरमवान्तरदेशङ् गत्वा स्वकृत …{Loading}…

उत्तरमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधाय देवस्य त्वेत्यनुद्रुत्य रक्षसो वधं जुहोमीति पर्णमयेन स्रुवेण जुहोति १७

18 हतं रक्ष इति …{Loading}…

हतं रक्ष इति स्रुवमनुप्रहृत्यावधिष्म रक्ष इत्युपतिष्ठते १८

19 यद्वस्ते तद्दक्षिणा वरो …{Loading}…

यद्वस्ते तद्दक्षिणा । वरो वा १९

20 अप्रतीक्षमायन्ति रक्षसामन्तर्हित्या इति …{Loading}…

अप्रतीक्षमायन्ति रक्षसामन्तर्हित्या इति विज्ञायते २०

इति नवमी कण्डिका


  1. TS I 8.1.11. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB 1.6.1.4. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. TS 1.8.7.e. ↩︎ ↩︎ ↩︎

  4. Cf. ŚB V.2.4.15. ↩︎