०८

01 राजा स्वर्गकामो राजसूयेन ...{Loading}...

राजा स्वर्गकामो राजसूयेन यजेत १

02 शतसहस्रन् दक्षिणा ...{Loading}...

शतसहस्रं दक्षिणा २

03 अग्निष्टोमः पञ्चापवर्गः प्रथममहः ...{Loading}...

अग्निष्टोमः पञ्चापवर्गः प्रथममहः ३

04 पञ्च सहस्राणि पवित्रे ...{Loading}...

पञ्च सहस्राणि पवित्रे ददाति । त्रिंशतमभिषेचनीये । त्रिंशतं दशपेये । दश केशवपनीये । विंशतिं व्युष्टिद्विरात्रे । पञ्च क्षत्रस्य धृतौ ४

05 अपि वा चत्वार्यभिषेचनीये ...{Loading}...

अपि वा चत्वार्यभिषेचनीये ५

06 प्रतिसाहस्राणीतराण्यहानि ...{Loading}...

प्रतिसाहस्राणीतराण्यहानि ६

07 षष्टित्रीणि शतानि सहस्राणान् ...{Loading}...

षष्टित्रीणि शतानि सहस्राणां ददातीति बह्वृचब्राह्मणं भवति ७

08 तथा दक्षिणा अतिनयेद्यथास्याहानि ...{Loading}...

तथा दक्षिणा अतिनयेद्यथास्याहानि स्वकालानि स्युः ८

09 शेषमनुदिशति ...{Loading}...

शेषमनुदिशति ९

10 श्वो भूत आनुमतादिभिरष्टाभिरन्वहं ...{Loading}...

श्वो भूत आनुमतादिभिरष्टाभिरन्वहं यजते १०

11 पिंषन्नानुमतम् पश्चादुत्तरतश्च व्यवशातयति ...{Loading}...

पिंषन्नानुमतं पश्चादुत्तरतश्च व्यवशातयति ११

12 ये प्रत्यञ्चः शम्याया ...{Loading}...

ये प्रत्यञ्चः शम्याया अवशीयन्ते तन्नैरृतमेककपालम् १२

13 य उदञ्चस्तानुदङ् परेत्य ...{Loading}...

य उदञ्चस्तानुदङ् परेत्य वल्मीकवपामुद्धत्येदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इति शुक्त्या वल्मीकवपायां हुत्वेदमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधामीति तयैव शुक्त्या वल्मीकवपामपिदध्यात् १३

14 वल्मीकवपया जुहोति वल्मीकवपयापिदधातीत्येके ...{Loading}...

वल्मीकवपया जुहोति वल्मीकवपयापिदधातीत्येके १४

15 आनुमतमासाद्य नैरृतेन प्रचरति ...{Loading}...

आनुमतमासाद्य नैरृतेन प्रचरति १५

16 वीहि स्वाहेति गार्हपत्ये ...{Loading}...

वीहि स्वाहेति गार्हपत्ये हुत्वा दक्षिणाग्नेरेकोल्मुक्तं धूपायद्धरति १६

17 दक्षिणमपरमवान्तरदेशङ् गत्वा स्वकृत ...{Loading}...

दक्षिणमपरमवान्तरदेशं गत्वा स्वकृत इरिणे प्रदरे वोपसमाधायैष ते निरृते भाग इत्यङ्गुष्ठाभ्यां विस्रंसिकाकाण्डाभ्यां वा नैरृतं सर्वहुतं जुहोति १७

18 कृष्णं वासः कृष्णतूषन् ...{Loading}...

कृष्णं वासः कृष्णतूषं दक्षिणा १८

19 कृष्णं वासो भिन्नान्तमित्येके ...{Loading}...

कृष्णं वासो भिन्नान्तमित्येके १९

20 अप्रतीक्षमायन्ति निरृत्या अन्तर्हित्या ...{Loading}...

अप्रतीक्षमायन्ति निरृत्या अन्तर्हित्या इति विज्ञायते २०

इत्यष्टमी कण्डिका


  1. Thus the Agniṣṭoma is a one day sacrifice but before the Soma sacrificial day there is one dīkṣā day and three Upasad day. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. See XVIII. 12.1ff. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. See XVIII.20.11 ff. ↩︎ ↩︎

  4. See XVIII .22.9-11. ↩︎ ↩︎

  5. See XVIII.22.12-17. ↩︎

  6. See XVIII.22.18-19. ↩︎