०७

01 सम्पृच स्थ सम् …{Loading}…

सम्पृच स्थ सं मा भद्रेण पृङ्क्तेति प्राङ्ध्वर्युः सोमग्रहैरुद्द्रवति । विपृच स्थ वि मा पाप्मना पृङ्क्तेति प्रत्यङ् प्रतिप्रस्थाता सुराग्रहैः १

02 आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते मार्जालीयन्यन्ते …{Loading}…

आहवनीयन्यन्ते सोमग्रहैरवतिष्ठन्ते । मार्जालीयन्यन्ते सुराग्रहैः २

03 प्रचरति सोमग्रहैः …{Loading}…

प्रचरति सोमग्रहैः ३

04 वषट्कारानुवषट्कारौ सुराग्रहाननुप्रकम्पयन्ति …{Loading}…

वषट्कारानुवषट्कारौ सुराग्रहाननुप्रकम्पयन्ति ४

05 व्याख्यातः सोमस्य भक्षः …{Loading}…

व्याख्यातः सोमस्य भक्षः ५

06 विराट्छन्दस इति भक्षमन्त्रन् …{Loading}…

विराट्छन्दस इति भक्षमन्त्रं नमति ६

07 मारुत्या अवदानीयानि सोमग्रहांश्चर्त्विग्भ्य …{Loading}…

मारुत्या अवदानीयानि सोमग्रहांश्चर्त्विग्भ्य उपहरन्ति । अनवदानीयानि सुराग्रहांश्च वाजसृद्भ्यः ७

08 तानि दक्षिणस्यां वेदिश्रोण्यां …{Loading}…

तानि दक्षिणस्यां वेदिश्रोण्यां विमाथीकृत्य भक्षयन्ति ८

09 ककुदो राजपुत्रो ध्रुवगोपो …{Loading}…

ककुदो राजपुत्रो ध्रुवगोपो नैवारगोपो वा प्राश्नीयात् । सर्वं वा ककुदमुपरिष्टात्सर्वसोमेभ्यः ९

10 अत्र सारस्वतप्रभृतीनान् दैवतेन …{Loading}…

अत्र सारस्वतप्रभृतीनां दैवतेन प्रचरति १०

11 यज्ञारण्ये प्रचरन्तीति विज्ञायते …{Loading}…

यज्ञारण्ये प्रचरन्तीति विज्ञायते ११

12 तद्यत्रेष्टा अनूयाजा भवन्त्यव्यूढाः …{Loading}…

तद्यत्रेष्टा अनूयाजा भवन्त्यव्यूढाः स्रुचः । तदेतैः प्रचरेयुः । तदु तथा न कुर्यात् । ह्वलति वा एतद्यज्ञो यदेवं कुर्वन्तीति १२

13 तस्माद्यत्रैव पूर्वेषां वपाभिश्चरेयुस्तदितरेषाम् …{Loading}…

तस्माद्यत्रैव पूर्वेषां वपाभिश्चरेयुस्तदितरेषाम् । यत्रो हैव हविर्भिस्तद्धविर्भिः १३

14 सन्तिष्ठते वाजपेयः …{Loading}…

सन्तिष्ठते वाजपेयः १४

15 तेनेष्ट्वा सौत्रामण्या यजेत …{Loading}…

तेनेष्ट्वा सौत्रामण्या यजेत । मैत्रावरुण्या वामिक्षया १५

16 यावज्जीवन् न कञ्चन …{Loading}…

यावज्जीवं न कञ्चन प्रत्यवरोहेत् १६

17 बृहस्पतिसवेन वा प्रत्यवरोहणीयेन …{Loading}…

बृहस्पतिसवेन वा प्रत्यवरोहणीयेन यजेत १७

18 श्वेतच्छत्त्री ह भवतीति …{Loading}…

श्वेतच्छत्त्री ह भवतीति विज्ञायते १८

इति सप्तमी कण्डिका


  1. See TB I.3.3.6-7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB I.3.8.4 (I.3.3.7). ↩︎ ↩︎ ↩︎

  3. Cf. MS I. 11.7; KS XIV.8. ↩︎