०६

01 तस्मिञ्छतमानं हिरण्यन् निधायामृतमसीति …{Loading}…

तस्मिञ्छतमानं हिरण्यं निधायामृतमसीति हिरण्ये दक्षिणं पादं यजमानः प्रतिष्ठापयते १

02 पुष्टिरसि प्रजननमसीति बस्ताजिने …{Loading}…

पुष्टिरसि प्रजननमसीति बस्ताजिने सव्यम् २

03 तस्मादासन्दीमारोहति …{Loading}…

तस्मादासन्दीमारोहति ३

04 दिवम् प्रोष्ठिनीमारोह तामारुह्य …{Loading}…

दिवं प्रोष्ठिनीमारोह तामारुह्य प्रपश्यैकराण्मनुष्याणामित्यारोहन्तमभिमन्त्रयते ४

05 सप्तभिः सप्त पूर्वानन्नहोमाञ्जुहोति …{Loading}…

सप्तभिः सप्त पूर्वानन्नहोमाञ्जुहोति ५

06 माहेन्द्रस्य स्तोत्रम् प्रत्यभिषिच्यते …{Loading}…

माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते यथाग्निचित्यायाम् ६

07 माध्यन्दिनस्य सवनस्य मध्यम …{Loading}…

माध्यन्दिनस्य सवनस्य मध्यम उक्थ्यपर्याये ब्रह्मसाम्न्युपाकृतेऽत्र सारस्वतप्रभृतीनुत्तरानालभन्ते ७

08 तेषामनभिघारिताभिर्वपाभिः प्रचरति …{Loading}…

तेषामनभिघारिताभिर्वपाभिः प्रचरति ८

09 सारस्वतस्य वपया प्रचर्य …{Loading}…

सारस्वतस्य वपया प्रचर्य सम्नवदायेत रेषां वपाभिः प्रचरति ९

10 सारस्वतस्य पशुपुरोडाशेन प्रचर्य …{Loading}…

सारस्वतस्य पशुपुरोडाशेन प्रचर्य नैवारेण प्रचरति १०

11 समानन् तु स्विष्टकृदिडम् …{Loading}…

समानं तु स्विष्टकृदिडम् ११

12 महर्त्विजो हविरुच्छिष्टाशा भवन्ति …{Loading}…

महर्त्विजो हविरुच्छिष्टाशा भवन्ति १२

13 आग्नीध्रे हविःशेषान्भक्षयन्ति …{Loading}…

आग्नीध्रे हविःशेषान्भक्षयन्ति १३

14 अत्र सारस्वत्यन्तानान् दैवतेन …{Loading}…

अत्र सारस्वत्यन्तानां दैवतेन प्रचरतिसंवादाद्येडायाः । काले वा १४

15 षोडशिना प्रचर्य होतृचमसमुख्यांश्चमसानुन्नीय …{Loading}…

षोडशिना प्रचर्य होतृचमसमुख्यांश्चमसानुन्नीय बृहतः स्तोत्रमुपाकरोति १५

16 प्रचरणकाले होतृचमसमध्वर्युरादत्ते चमसांश्चमसाध्वर्यवः …{Loading}…

प्रचरणकाले होतृचमसमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । ऋत्विज इतरान्सोमग्रहान् १६

17 सुराग्रहाणाम् मुख्यम् प्रतिप्रस्थातादत्ते …{Loading}…

सुराग्रहाणां मुख्यं प्रतिप्रस्थातादत्ते । वाजसृत इतरान्सुराग्रहान् १७

इति षष्ठी कण्डिका


  1. TB I.3.7.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.7.9.h(a). ↩︎

  3. TS 1.7.9.h(b,c). ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎