०५

01 आ मा वाजस्य …{Loading}…

आ मा वाजस्य प्रसवो जगम्यादिति प्रत्यासृतेषु हुत्वा पुनर्नैवारमवघ्रापयति । ससृवांस इति लेपांश्च निमार्ष्टि १

02 इयं वः सा …{Loading}…

इयं वः सा सत्या सन्धाभूदिति दुन्दुभिविमोचनीयं होमं जुहोति २

03 सेवान्वोपस्पृशति …{Loading}…

सेवान्वोपस्पृशति ३

04 कृष्णलङ्कृष्णलं वाजसृद्भ्यः प्रयच्छति …{Loading}…

कृष्णलङ्कृष्णलं वाजसृद्भ्यः प्रयच्छति ४

05 तानि प्रत्यादाय ब्रह्मणे …{Loading}…

तानि प्रत्यादाय ब्रह्मणे ददाति । मधुष्ठालं च सौवर्णं शतमानस्य कृतम् ५

06 अत्र माहेन्द्रस्य स्तोत्रमुपाकरोति …{Loading}…

अत्र माहेन्द्रस्य स्तोत्रमुपाकरोति ६

07 अप्रस्तुते क्षत्रस्योल्बमसीति तार्प्यं …{Loading}…

अप्रस्तुते क्षत्रस्योल्बमसीति तार्प्यं यजमानः परिधत्ते ७

08 क्षत्रस्य योनिरसीति दर्भमयम् …{Loading}…

क्षत्रस्य योनिरसीति दर्भमयं पत्नी ८

09 जाय एहीति यजमानः …{Loading}…

जाय एहीति यजमानः पत्नीमामन्त्रयते ९

10 रोहाव हीतीतरा प्रत्याह …{Loading}…

रोहाव हीतीतरा प्रत्याह १०

11 त्रिरामन्त्रयते त्रिः प्रत्याह …{Loading}…

त्रिरामन्त्रयते । त्रिः प्रत्याह ११

12 अहन् नावुभयोः सुवो …{Loading}…

अहं नावुभयोः सुवो रोक्ष्यामीति यजमानोऽन्ततः १२

13 वाजश्च प्रसवश्चेति द्वादश …{Loading}…

वाजश्च प्रसवश्चेति द्वादश वाजप्रसवीयान्होमान्हुत्वायुर्यज्ञेन कल्प्लतामिति दशभिः कल्पैः सरजसे निश्रेण्या यूपं यजमान आरोहति १३

14 सुवर्देवाँ अगन्मेत्यग्रम् प्राप्य …{Loading}…

सुवर्देवाँ अगन्मेत्यग्रं प्राप्य जपति १४

15 समहम् प्रजया सम् …{Loading}…

समहं प्रजया सं मया प्रजेति गृहान्प्रेक्षते १५

16 तमाश्वत्थैरासपुटैरूषपुटैरुभयैर्वा वैश्याः प्रतिदिशमर्पयन्ति …{Loading}…

तमाश्वत्थैरासपुटैरूषपुटैरुभयैर्वा वैश्याः प्रतिदिशमर्पयन्ति । महर्त्विजो वा दीर्घवंशेषु प्रबध्य १६

17 अन्नाय त्वेति पुरस्तादध्वर्युः …{Loading}…

अन्नाय त्वेति पुरस्तादध्वर्युः । अन्नाद्याय त्वेति दक्षिणतो ब्रह्मा । वाजाय त्वेति पश्चाद्धोता । वाजजित्यायै त्वेत्युत्तरत उद्गाता १७

18 मुखतोऽभिघ्नन्ति …{Loading}…

मुखतोऽभिघ्नन्ति १८

19 हन्तारंहन्तारमभिपर्यावर्तते …{Loading}…

हन्तारंहन्तारमभिपर्यावर्तते १९

20 इयन् ते राण्मित्राय …{Loading}…

इयं ते राण्मित्राय यन्त्राय धर्त्राय कृष्यै क्षेमाय रय्यै पोषयेति प्रत्यवरोहति २०

21 अग्रेण यूपम् बस्ताजिनम् …{Loading}…

अग्रेण यूपं बस्ताजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य २१

इति पञ्चमी कण्डिका


  1. Cf. MS I.11.7; KS XIV.7. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. TS I.7.8.n. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Cf TB I.3.6.9. ↩︎ ↩︎

  4. TS I.7.8.p. ↩︎ ↩︎

  5. Cf. ŚB V.2.1.9. ↩︎

  6. TS I.7..9.d. ↩︎